________________
आचारदिनकरः
विधिः
॥२०१॥
तायां प्रतिष्ठायां यदि तत्रैव लब्धे गृहे स्थाप्यमाने पूर्वप्रतिष्ठितकङ्कणमोचनविधिं कुर्यात् । अन्यत्र वा गृह-विभागः२ पूज्यबिम्बे कुतोपि गृहे स्थापनं भवति तत्रैव कङ्कणमोचनं कुर्यात् । यदि वा तबिम्बमन्यत्र गृहान्तरे ग्रामा-1 प्रतिष्ठा न्तरे वा देशान्तरे वा स्थाप्यं भवति तदा तस्य कङ्कणमोचनं तत्र नीत्वा प्रवेशकमहोत्सवैः कुर्यात् । कङ्कण-18|| मोचनस्य स एव विधिः । इति प्रतिष्ठाधिकारे जिनबिम्बप्रतिष्ठा संपूर्णा ॥१॥ ___ अथ चैत्यप्रतिष्ठाविधिः ॥२॥ सचायं बिम्बप्रतिष्ठासदृशे लग्ने बिम्बप्रतिष्ठानन्तरं तत्कालमेव दिनमासपक्षवर्षान्तरेषु वा संघमीलनम् । चैत्यचतुर्दिक्षु वेदिकाकरणं कुर्वीत । ततश्चतुर्विशतितन्तुसूत्रेण अन्तर्बहिर्वे|ष्टितेन चैत्यरक्षाकरणं शान्तिमन्त्रेण । ततः स्नात्रकारपञ्चकम् ओषधिवर्तकनारीपञ्चकं पूर्ववत् । तथैव रसाञ्जनसौवीरमाक्षिकवर्तनं नास्ति । ततो बृहत्वात्रविधिना जिनलानं विधाय सप्तधान्यवर्धापनं बिम्बवत् रक्षाबन्धनं च बिम्बवत् । ततो रौद्रदृष्ट्या मध्याङ्गलिद्वयोवीकरणेन वामकरजलेन चैत्याछोटनम् । ततश्चैत्यस्य वस्त्राच्छादनम् उपरि च पूर्ववत् । नानागन्धफलपुष्पैः पूजनम् । ततो नन्द्यावर्तस्थापनं पूजनं सर्व बिम्बप्रतिठावत् । ततः संप्राप्तायां लग्नवेलायां वासक्षेपपूर्व जिनप्रतिष्ठामन्त्रं पठित्वा वास्तुदेवतामत्रं पठेत् । सचायं ॐ ह्रींश्रीक्षांक्षीक्षहांह्रीं भगवति वास्तुदेवते ल ५ क्षि ५ इह चैत्ये अवतर २ तिष्ठ २ स्वाहा इति वासक्षेपपूर्वकं देहल्यां द्वारश्रियां शिखरे सप्तसप्तवेलं वासान् क्षिपेत् । ततो वेद्यन्तेषु नैवेद्यशरावादि पूर्ववत् । ततः ॥ २०१॥ प्रतिष्ठाता पुनः बृहत्स्लाविधिना जिनलानं कुर्यात् । ततश्चैत्यात् वस्त्रापनयनं महोत्सवश्च सर्वोपि पूर्ववत् ।।
Jan Education inte
For Private & Personal Use Only
www.jainelibrary.org