________________
Jain Education Interna
जिनप्रतिमाग्रतः पूर्णकलशं लिखेत् । ४ । “अन्तः परमज्ञानं यद्भाति जिनाधिनाथहृदयस्य । तच्छ्रीवत्सव्याजात्प्रकटीभूतं बहिर्वन्दे ॥ १ ॥ अनेन वृत्तेन चं० जिनाग्रे श्रीवत्सं लिखेत् । ५ । " त्वद्वन्ध्यपश्चशरकेतनभावलसं कर्तुं मुधा भुवननाथ निजापराधम् । सेवां तनोति पुरतस्तव मीनयुग्मं श्राद्धैः पुरो विलिखितोरुनिजाङ्गयुक्तया ॥ १ ॥ अनेन वृत्तेन चं० जिनाग्रे मत्स्ययुग्मं लिखेत् । ६ । “खस्तिभूगगननागविष्टपेषूदितं | जिनवरोदयेक्षणात् । खस्तिकं तदनुमानतो जिनस्याग्रतो बुधजनैर्विलिख्यते ॥ १ ॥ अनेन वृत्तेन चं० जिनबिम्बा स्वस्तिकं लिखेत् । ७ । " त्वत्सेवकानां जिननाथ दिक्षु सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्धा नवकोणनन्द्यावर्तः सतां वर्तयतां सुखानि ॥ १ ॥" अनेन वृत्तेनचं० जिनबिम्बाग्रे नन्द्यावर्त लिखेत् | ८ | ततोऽष्टमङ्गलानि गन्धैः पुष्पैः फलैः पक्कान्नैः पूजयेत् । ततः पुष्पमालां गृहीत्वा । “दर्पणभद्रासनवर्द्धमानपूर्ण घटमत्स्ययुग्मैश्च । नन्द्यावर्त श्रीवत्सविस्फुटस्वस्तिकैर्जिनार्चासु ॥ १ ॥" अनेन वृत्तेन पुष्पमालां जिनबिम्बोपरि न्यसेत् । अष्टमाङ्गलिक्यस्थापना यथा । तदनन्तरं पुष्पं गृहीत्वा "देवेन्द्रः कनकाद्रिमूर्द्धनि जिनस्नात्रेण गन्धार्पणैः पुष्पैर्भूषणवस्त्रमङ्गलगणैः संपूज्य मातुः पुनः । आनीयान्यतएवमत्र भविका विम्बं जगत्स्वामिनस्तस्कृत्यानि समाप्य कल्पितमतः संप्रापयन्त्यास्पदम् ॥ १ ॥" अनेन वृत्तेन बिम्बं स्नपनपीठादुत्थाप्य यथास्थानं स्थापयेत् । स्थिरबिम्बे तु । आज्ञाहीनं क्रियाहीनं मन्त्र० । १ । अनेन पुष्पारोपणम् । तदनन्तरं पूर्वरीत्या आरात्रिकमाङ्गलिकादिकर्मकरणं पूजाकर्मवत् । तदनन्तरं चैत्यवन्दनं साधुवन्दनं च दिक्पालक्षेत्रपालग्रहस्था
For Private & Personal Use Only
ww.jainelibrary.org