________________
इतरै रूपैः कृशानद्गतः । पातालक्षितिगोनिवासिमरुतां संप्रीणकैरुत्तमैधूमाक्रान्तनभस्तलैर्जिनपतिं संपूजयामोऽधुना ॥१॥ या धूपपूजा देवेन्द्रः स्नानानन्तरमादधे । जिनेन्द्रस्यास्मदुत्कर्षादस्तुसात्र महोत्सवे ॥२॥" अनेन वृत्तद्वयेन बिम्बस्य धूपदानम् । “अन्तज्योतिद्योतितो यस्य कायो यत्संस्मृत्या ज्योतिरुत्कर्षमेति । तस्याभ्याशे निर्मितं दीपदानं लोकाचारख्यापनाय प्रभाति ॥१॥ या दीपमाला देवेन्द्रः सुमेरौ खामिनः कृता। सात्रान्तर्गतमस्माकं विनिहन्तु तमोभरम् ॥२॥" अनेन वृत्तद्वयेन बिम्बाग्रे दीपदानम् । "ओदनैविविधैः शाकैः पक्कान्नैः षड्रसान्वितैः । नैवेद्यैः सर्वसिद्ध्यर्थं जायतां जिनपूजनम् ॥१॥" अनेन वृत्तेन बिम्बाग्रे नैवेद्यढीकनम् । “गोधूमतन्दुलतिलैहरिमन्थकैश्च मुद्गाढकीयवकलायमकुष्टकैश्च । कुल्माषवल्लवरचीनकदेवधान्यैर्मत्यैः कृता जिनपुरः फलदोपदास्तु ॥१॥" अनेन वृत्तेन जिनाग्रतः सर्वधान्यढौकनम् । “शुण्ठीकणामरिचरामठजीरधान्यश्यामासुराप्रभृतिभिः पटुवेसवारैः । संढौकनं जिनपुरो मनुर्विधीयमानं मनांसि यशसा विमलीकरोतु ॥१॥” अनेन वृत्तेन जिनाग्रतः सर्ववेसवारढीकनम् । "उशीरवटिकाशिरोज्वलनचव्यधात्रीफलैबलासलिलवत्सकैर्घनविभावरीवासकैः । वचावरविदारिकामिशिशताह्वयाचन्दनैः प्रियङ्गुतगरै|र्जिनेश्वरपुरोस्तु नो ढौकनम् ॥ १॥" अनेन वृत्तेन जिनप्रतिमाग्रतः सर्वोषधीढौकनम् । “भुजङ्गवल्लीछदनैः सिताभ्रकस्तूरिकैलासुरपुष्पमित्रैः। सजातिकोशैः सममेव चूर्णैस्ताम्बूलमेवं तु कृतं जिनाग्रे ॥१॥" अनेन |वृत्तेन जिनविम्बाग्रे ताम्बूलढोकनम् । “सुमेरुशृङ्गे सुरलोकनाथ: स्नात्रावसाने प्रविलिप्य गन्धैः । जिनेश्वरं
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org