________________
-
--
आचारदिनकरः
विभागा२ प्रतिष्ठाविधिः
॥१९४॥
एवं दिक्पालग्रहदेवगणपूजनं विधाय जिनबिम्बस्य पञ्चामृतस्नात्रं कुर्वीत । तद्यथा । पुनः कुसुमाञ्जलिं करे गृहीत्वा । “पूर्व जन्मनि मेरुभूधशिखरे सर्वैः सुराधीश्वरै राज्योभृतिमहे महर्द्धिसहितः पूर्वेऽभिषिक्ता जिनाः । तामेवानुकृतिं विधाय हृदये भक्तिप्रकर्षान्विताः कुर्मः स्वस्वगुणानुसारवशतो बिम्बाभिषेकोत्सवम् ॥१॥” अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । पुनः पुष्पाञ्जलिं करे गृहीत्वा । “मृत्कुम्भाः कलयन्तु रत्नघटितां पीठं पुनर्मेरुतामानीतानि जलानि सप्तजलधिक्षीराज्यदध्यात्मताम् । बिम्बं पारगतत्वमत्र सकल: संघः सुराधीशतां येन स्यादयमुत्तमः सुविहितः स्नात्राभिषेकोत्सवः ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । पुनः पुष्पाञ्जलिं करे गृहीत्वा । "आत्मशक्तिसमानीतैः सत्यं चामृतवस्तुभिः । तदार्द्धिकल्पनां कृत्वा लपयामि जिनेश्वरम् ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । ततः क्षीरभृतं कलशं करे गृहीत्वा । "भगवन्मनोगुणयशोनुकारिदुग्धाब्धितः समानीतम् । दुग्धं विदग्धहृदयं पुनातु दत्तं जिनस्लाने ॥१॥" अनेन वृत्तेन क्षीरस्तात्रम् । पुनः दधिभृतं कलशं करे गृहीत्वा । “दधिमुखमहीध्रवर्ण दधिसागरतः समाहृतं भक्त्या । दधि विदधातु शुभविधिं दधिसारपुरस्कृतं जिनस्लाने ॥१॥" अनेन वृत्तेन दधिस्लानम् । पुनः घृतभृतं कुम्भं गृहीत्वा । "स्निग्धं मृदु पुष्टिकरं जीवनमतिशीतलं सदाभिख्यम् । जितमतवद्धतमेतत्पुनातु लग्नं जिनलाने ॥१॥" अनेन वृत्तेन घृतस्नात्रम् । पुनरिक्षुरसभृतं कलशं गृहीत्वा। "मधुरिमधुरीणविधुरितसुधाधराधार आत्मगुणवृत्त्या। शिक्षयतादिक्षुरसो विचक्षणीघं जिनलाने ॥१॥" अनेन वृत्तेन इक्षुरसलात्रम् । पुनः शुद्धजलभृ
Jain Education Interna
For Private & Personal use only
M
www.jainelibrary.org