________________
Jain Education Internationa
हरिणीवृत्तानि । अनेन० । “जयजयजयदेवदेवाधिनाथो लसत्सेवया प्रीणितखान्त कान्तप्रभप्रतिघबहुलदावनिर्वापणे पावनाम्भोदवृष्टे विनष्टाखिलाद्यत्रज । मरणभयहराधिकध्यानविस्फूर्जितज्ञानदृष्टिप्रकृष्टेक्षणाशंसन त्रिभुवन परिवेषनिःशेषविद्वज्जन श्लाघ्य कीर्तिस्थितिख्यातिताश प्रभो ॥ १ ॥" अनेन वृत्तेन बिम्बाग्रतोऽञ्जलिं बध्वा क्षणं ध्यानं । पुनः शक्रस्तवपाठः । ऊर्ध्वाधो० अनेन धूपोत्क्षेपः । २५ । एवं पञ्चविंशतिकुसुमाञ्जलयः प्रक्षिष्यन्ते । एतान्येव कुसुमाञ्जलिकाव्यान्यन्तर्गतविधिकाव्यपञ्चविंशतिरहितानि पञ्चविंशत्युत्तरशतसंख्यानि स्तुतिकुसुमाञ्जलिमहाकाव्यं ज्ञेयं विद्वद्भिर्भणनीयं पठनीयं पाठनीयं च ॥
ततोऽनन्तरं प्रतिष्ठायां नन्द्यावतेऽविसृष्टे तथैव रीत्या नन्द्यावर्ते शक्रेशानपरमेष्ठिजिनमातृलौकान्तिकवियादेवीइन्द्र इन्द्राणीशासनयक्ष शासनयक्षिणीदिक्पालग्रह चतुर्णिका यदेवादिपूजनं तथैव विधेयं नवरं पृथक् मुद्रा फलशरावादिढौकनं प्रतिष्ठादिनादन्यत्रदिने नास्ति किंतु गन्धपुष्पादिभिः सामान्यपूजैव विधेया । नन्यावर्ते तु विसृष्टे सर्वदा पर्वणि वा प्रतिमाप्रवेशे वा शान्तिके वा पौष्टिके वा बृहत्स्नानविधौ विधेये नन्द्यावर्तवलयक्रमो न स्थाप्यः किंतु पृथगेव भिन्नपीठेषु क्रमेण दिक्पालसक्षेत्रपालग्रह चतुर्णिकायदेवस्थापनं तेषां तत्र स्थापनं च पूर्वनिर्मित मूर्तिधातुकाष्ठपाषाणनिर्मितप्रतिमास्थापनम् । अथवा नानाधातुभिः कुङ्कुमचन्दनाद्यैर्वा तन्मूर्तिलिखनं उत तिलकमात्रदानेन स्थापनं पीठे यथादिग्भागं दिक्पालानां ग्रहणं च प्रदक्षिणावर्तया च आवाहनं संस्थापनं पूजनं कुसुमाञ्जलिक्षेपादि नन्द्यावर्तविधिकथितविधिनैव तैरेव काव्यैर्विधेयं ।
For Private & Personal Use Only
inelibrary.org