________________
आचारदिनकरः ॥१९३॥
विभागः२ प्रतिष्ठाविधिः
ममतामायः कल्पवत्तापमानदः ॥२॥ महामोहमहाशैल पविज्ञानपरायण । परायणपविज्ञान जय पारगतेश्वर ॥ ३॥ समाहितपरीवार परीवारसमाहित । नमोस्तु ते भवच्छ्रेयो भवच्छ्रेयो नमोस्तु ते ॥ ४॥ वराभिख्यवराभिख्य कृपाकर कृपाकर । निराधार निराधार जयानतजयानत ॥५॥” श्लोकाः । अनेन । “न स्वर्गाप्सरसां स्पृहा समुदयो नानारकच्छेदने नो संसारपरिक्षितौ न च पुनर्निर्वाणनित्यस्थितौ । त्वत्पादद्वितयं नमामि भगवन्कित्वेककं प्रार्थये त्वद्भक्तिर्मम मानसे भवभवे भूयाद्विभो निश्चला ॥१॥" अनेन वृत्तेन अञ्जलिं कृत्वा बिम्बाग्रे विज्ञप्तिकां कुर्यात् । पुनः श. ऊ. धूपदानं । २४ । पुनः कु०-"अधिकविरसः शृङ्गाराङ्गः समाप्तपरिग्रहो जयति जगतां श्रेयस्कारी तवागमविग्रहः । अधिकविरसः शृङ्गाराङ्गः समाप्तपरिग्रहो न खलु कुमतव्यूहे यत्र प्रवर्तितविग्रहः ॥१॥ विषयविषमं हन्तुं मच प्रगाढभवभ्रमं बहुलबलिनो देवाधीशा नितान्तमुपासते । तव वृषवनं यस्मिन्कुञान्महत्तमयोगिनो बहुलबलिनो देवाधीशा नितान्तमुपासते ॥२॥ समवसरणं साधुव्याघवृषरहिभिर्वरं जयति मधुभित्कृप्तानेकाविनश्वरनाटकम् । तव जिनपते काङ्क्षापूर्ति प्रयच्छतु संकुलं समवसरणं साधुव्यावृषैरहिभिर्वरम् ॥३॥ तव चिदुदयो विश्वस्वामिनियर्ति विशङ्कितो जलधरपदं खर्गव्यूहं भुजङ्गगृहं परम् । जलधरपदवर्गव्यूहं भुजङ्गगृहं परं त्यजति भवता कारुण्यात्याक्षिपक्ष्मकटाक्षितः॥४॥ विशदविशदप्राज्यप्राज्यप्रवारणवारणा हरिणहरिण श्रीद श्रीदप्रबोधनबोधना । कमलकमलव्यापव्यापद्दरीतिदरीतिदा गहनगहन श्रेणीश्रेणी विभाति विभाति च ॥५॥"
Jan Education Internatio
For Private &Personal use Only
.
jainelibrary.org