________________
-
%A4%
-%COCOCACAMACHAR
मानः समानः कल्पाकल्पात्मदर्शः परमपरमताछेददक्षोददक्षो देवादेवात्महृद्यः स जयति जयतिर्यत्प्रकृष्टः प्रकृष्टः॥१॥" अनेन वृत्तेन बिम्बे दर्पणाढौकनं । पुनः श० अ० धूपदानं । २२। पुनः कु०-"अनारतमनारतं सगुणसंकुलं संकुलं विशालकविशालकं स्मरगजेसमंजे समम् । सुधाकरसुधाकरं निजगिरा जितं राजितं जिनेश्वरजिनेश्वरं प्रणिपतामि तं तामितम् ॥१॥ जरामरणबाधनं विलयसाधुतासाधनं. नमामि परमेश्वरं स्तुतिनिषक्तवागीश्वरम् । जरामरणबाधनं विलयसाधुतासाधनं कुरङ्गनयनालटत्कटुकटाक्षतीव्रव्रतम् ॥२॥ अनन्यशुभदेशनावशगतोरुदेवासुरं पुराणपुरुषार्दनप्रचलदक्षभङ्गिश्रियम् । अशेषमुनिमण्डलीप्रणतिरञ्जिताखण्डलं पुराणपुरुषार्दनप्रचलदक्षभङ्गिश्रियम् ॥३॥ स्मरामि तव शासनं सुकृतसत्त्वसंरक्षणं महाकुमतवारणं सुकृतसत्त्वसंरक्षणम् । परिस्फुरदुपासक मृतया महाचेतनं वितीर्णजननिवृतिं मृदुतया महाचेतनम् ॥ ४॥ पयोधरविहारणं जिनवरं श्रियां कारणं पयोधरविहारणं सरलदेहिनां तारणम् । अनङ्गकपरासनं नमत मक्षु तीर्थेश्वरं अनङ्गकपरासनं विधृतयोगनित्यस्मृतम् ॥५॥” पृथ्वीवृत्तानि । अनेन । “त्व-10 य्यज्ञाते स्तुतिपदमहो किं त्वयि ज्ञातरूपे स्तुत्युत्कण्ठा न तदुभयथा त्वत्स्तुतिनोंथ योग्या । तस्मात्सिङ्ग्युगजनविधिना किंचिदाख्यातिभाजो लोका भक्तिप्रगुणहृदया नापराधास्पदं स्युः॥१॥” इति वृत्तं पठित्वा अधिकृतजिनस्तोत्रं पठेत् । पुनः श. ऊ. धूपदानं। २३ । पुनः कु०-"कुलालतां च पर्याप्त निर्माणे शुभकर्मणाम् । कुलालतां च पर्याप्तं वन्दे तीर्थपतिं सदा ॥१॥ जयताजगतामीशः कल्पवत्तापमानदः । निरस्त
ACCIACALC-%
Jain Education india
For Private & Personal Use Only
I
www.jainelibrary.org