________________
आचारदिनकरः
॥ १९२ ॥
Jain Education Inter
पुनः कु० - "करकलितपालनीयः कमनीयगुणैकनिधिमहाकरणः । करकलितपालनीयः स जयति जिनपतिरकर्मकृतकरणः ॥ १ ॥ विनयनयगुणनिधानं सदारतावर्जनं विसमवायम् । वन्दे जिनेश्वरमहं सदारतावर्जनं विसमवायम् ॥ २ ॥ जलतापवारणमहं नमामि सुखदं विशालवासचयम् । जलतापवारणमहं नमामि | सुखदं विशालवासचयम् ॥ ३ ॥ शृङ्गारसमर्यादं यादः पतिवत्सदाप्यगाधं च । शृङ्गारसमर्यादं यादःपतिवन्दितं प्रणिपतामि ॥ ४ ॥ भीमभवार्णवपोतं वन्दे परमेश्वरं सितश्लोकम् । उज्झितकलत्रपोतं वन्दे परमेश्वरं सितश्लोकम् ॥ ५ ॥” गीतयः । अनेन० । “नीरस्य तर्षहरणं ज्वलनस्य तापं तार्क्ष्यस्य गारुडमनङ्गतनोर्विभूषाम् । कुर्मो जिनेश्वर जगत्रयदीपरूप दीपोपदां तव पुरो व्यवहारहेतोः ॥ १ ॥ अनेन वृत्तेन बिम्बस्य दीपदानम् । पुनः श० कु० पुनर्धूपदानं । २१ । पुनः कु० - " वनवासं वनवासं गुणहारिणहारिवपुषं वपुषम् । विजयानं विजयानं प्रभुं प्रभुं नमत नमत बलिनं बलिनम् ॥ १ ॥ सोमकलं सोमकलं पङ्के हितं पङ्के हितम् । | पुण्ये पुण्य बहिर्मुख बहिर्मुख महितं महितं परं परं धीरं धीरम् ॥ २ ॥ स्मृतिदायी स्मृतिदायी जिनो जिनोपास्तिकायः कायः । नखरायुध न खरायुध वन्द्योवन्द्यो यहृद्यहृत्कान्तः कान्तः ॥ ३ ॥ कुलाकुलाहरहरहारः करणः करणः विश्वगुरुर्विश्वगुरुः । कविराट् कविराट् महामहा कामः कामः ॥ ४ ॥ कल्याणं कल्याणं प्रथयन् प्रथयन् हितेहिते प्रख्यः प्रख्यः । परमेष्ठी परमेष्ठी लालो लालो वितर वितर सत्त्वं सत्त्वम् ||५||” खंधाजातिः । अनेन० । “धीराधीरावगाहः कलिलकलिलताछेदकारीछेदकारी प्राणि प्राणिप्रयोगः सरुचिसरुचिताभास
I
For Private & Personal Use Only
विभागः २
प्रतिष्ठा
विधिः
॥ १९२ ॥
www.jainelibrary.org