________________
NAGAUR
दयाकरं सदातनुं । विभावरं विसंगरं विसंगरं विभावरम् ॥१॥ निरञ्जनं निरञ्जनं कुपोषणं कुपोषणं । सुरा|जितं सुराजितं धराधरं धराधरम् ॥ २॥ जनं विधाय रञ्जनं कुलं वितन्य संकुलं । भवं विजित्य सद्भवं जयं प्रतोष्य वै जयम् ॥३॥ घनं शिवं शिवं घनं चिरन्तनं तनं चिरं । कलावृतं वृतं कला भुवः समं समं भुवः ॥ ४ ॥ नमामि तं जिनेश्वरं सदाविहारिशासनं । सुराधिनाथमानसे सदाविहारिशासनम् ॥५॥" प्रमाणि। कावृत्तानि । अनेन । “प्रकटमानवमानवमण्डलं प्रगुणमानवमानवसंकुलम् । नमणिमानवमानवरं चिरंज-18 यति मानवमानवकौसुमम् ॥१॥" अनेन वृत्तेन बिम्बे मालारोपणम् । पुनः श. ऊ. पुनधूपदानं । १९ । पुनः कु०-"बहुशोकहरं बहुशोकहरं कलिकालमुदं कलिकालमुदम् । हरिविक्रमणं हरिविक्रमणं स कलाभिमतं सकलाभिमतम् ॥१॥ कमलाक्षमलं विनयायतनं विनयायतनं कमलाक्षमलम् । परमातिशयं वसुसंवलभं वसुसंवलभं परमातिशयम् ॥ २॥ अतिपादवपाटवलं जयिनं हतदानवदानवसुं सगुणम् । उपचारजवारजनाश्रयणं प्रतिमानवमानवरिष्टरुचम् ॥३॥ सरमं कृतमुक्तिविलासरमं भयदंभयमुक्तमिलाभयदम् । परमंत्रजनेत्रमिदं परमं भगवन्तमये प्रभुताभगवम् ॥४॥ भवभीतनरप्रमदाशरणं शरणं कुशलस्यमुनीशरणम् । शरणं प्रणमामि जिनं सदये सदये हृदि दीप्तमहागमकम् ॥५॥" जगतीवृत्तानि । अनेन । |"आशातना या किल देवदेव मया त्वदर्चारचनेऽनुषक्ता। क्षमख तां नाथ कुरु प्रसादं प्रायो नराः स्युः प्रचुरप्रमादाः॥१॥” अनेन वृत्तेन बिम्बस्य अञ्जलिना बद्धेन अपराधक्षामणम् । पुनः श. ऊ. पुनधूपदानं । २०
Jan Education Internati
For Private & Personal Use Only
N
ainelibrary.org