________________
आचारदिनकर
विभागा२ प्रतिष्ठाविधिः
-A
॥१९
॥
जीवं जीवंभाविरसानामुपजीवं वन्देवन्दे भाविरसानामभिवन्दे ॥४॥ सर्वैः कार्यैः संकुलरत्नं कुलरत्नं शुद्धस्फूर्त्या भाविवितानं विवितानम् । वन्दे जातत्राससमाधि ससमाधि तीर्थाधीशं संगतसङ्गगतसङ्गम् ॥५॥" मत्तमयूरवृत्तानि । अनेन। "खामिन् जायेताखिललोकोऽभयरक्षो नामोच्चारात्तीर्थकराणामनघानाम् । यत्तबिम्बे रक्षणकर्म व्यवसेयं तत्र प्रायः श्लाध्यतमः स्थायवहारः॥१॥" अनेन वृत्तेन बिम्बशरीरे हां ह्रीं हूं हौं ह्रः रूपैः पञ्चशून्यैः पञ्चाङ्गरक्षा। पुनः श० ऊ. धूपोत्क्षेपः ।१७। पुनः कु०-"बद्धनीतासुगं बद्धनीता सुगं सानुकम्पाकरं सानुकम्पाकरम् । मुक्तसंधाश्रयं मुक्तसंघाश्रयं प्रीतिनिर्यातनं प्रीतिनिर्यातनम् ॥१॥ सर्वदा दक्षणं पारमार्थे रतं सर्वदा दक्षणं पारमार्थेरतम् । निर्जराराधनं संवराभासनं संवराभासनं निर्जराराधनम् २॥ तैजसं संगतं संगतं तैजसं दैवतं बन्धुरं बन्धुरं दैवतम् । सत्तमं चागमाचागमात्सत्तमं साहसे कारणं कारणं साहसें ॥३॥ विश्वसाधारणं विश्वसाधारणं वीतसंवाहनं वीतसंवाहनम् । मुक्तिचंद्रार्जनं मुक्तिचंद्रार्जनं सारसंवाहनं सारसंवाहनं ॥४॥ कामलाभासहं पापरक्षाकरं पापरक्षाकरं कामलाभासहम् । बाणवीवर्धनं पूरकार्याधरं पूरकार्याधारं बाणवीवर्धनम् ॥५॥" चन्द्राननच्छन्दांसि । अनेन । “संसारसं
सारसुतारणाय संतानसंतानकतारणाय । देवाय देवायतितारणाय नामोस्तु नामोस्तुतितारणाय ॥१॥" ६ अनेन वृत्तेन बिम्बस्य निरुञ्छनकरणम् । पुनः श० ऊ० धूपोत्क्षेपः । १८ । पुनः कु०-"सदातनुं दयाकरं
. सारसंवासनं सारसंवासनं इति पाठः।
CKASS
+440
॥१९
॥
www.jainelibrary.org
Jan Education Inter
For Private & Personal Use Only