________________
----
----
रामः । रामाभिरामः कुशलाविसर्पः शिलाऽवसर्पो जयताजिनेन्द्रः॥५॥” उपजातिवृत्तानि । अनेन। "रम्यैरनन्तगुणषडसशोभमानैः सद्वर्णवर्णिततमैरमृतोपमेयैः । खारवाद्यफलविस्तरणैर्जिना मर्चामि वर्चसि | परैः कृतनित्यचर्चः ॥१॥" अनेन वृत्तेन बिम्बाग्रतः फलढौकनम् । पुनः श. ऊ. धूपोत्क्षेपः। १२॥ पुनः कुछ-"करवालपातरहितां जयश्रियं करवालपातरहितां जयश्रियम् । विनयन्नयापदसुचारिसंयमो विनययन्नयापदसुचारिसंयमः॥१॥ इनमन्धतामसहरं सदासुखं प्रणमामि कामितफलप्रदायकम् । इनमन्धतामसहरं सदा सुखं विजये च तेजसि परिष्ठितं चिरम् ॥२॥ निजभावचौरदमनं दयानिधि दमनं च सर्वमुनिमण्डलीवृतम् । मुनिमञ्जसा भवलसप्तयोनिधौ निलसक्तवीर्यसहितं नमामि तम् ॥३॥ बहुलक्षणोधकमनीयविग्रहः क्षणमात्रभिन्नकमनीयविग्रहः । कमनीयविग्रहपदावतारणो भवभुक्तमुक्तकुपदावतारणः ॥४॥ सुरनाथमानहरसंपदश्चितःक्षतराजमानहरहासकीर्तिभाक् । विगतोपमानहरणोद्धृताशयो विगताभिमानहरवध्यशातनः॥५॥" संधिवर्षिणीवृत्तानि । अनेन । “धाराधाराभिमुक्तोद्रसबलसबलेक्षोदकाम्यादकाम्या भिक्षाभिक्षाविचारखजनितजनितप्रातिमानोऽतिमानः । प्राणप्राणप्रमोदप्रणयननयनंधातहंधातहन्ता
श्रीदः श्रीदप्रणोदी खभवनभवनः काकतुण्डाकतुण्डा ॥१॥" अनेन वृत्तेन अगुरुक्षेपः । पुनः श० ऊ. धूपो४ क्षेपः । १३ । पुनः कु०-"ज्ञानकेलिकलितं गुणनिलयं विश्वसारचरितं गुणनिलयम् । कामदाहदहनं परम
मृतं वर्गमोक्षसुखदं परममृतम् ॥ १॥ खावबोधरचनापरमहितं विश्वजन्तुनिकरे परमहितम् । रागसङ्गिम
-
-
Jain Education Internation
For Private & Personal Use Only
Mainelibrary.org