________________
आचारदिनकरः
॥ १८६ ॥
Jain Education Inter
तीर्थेश्वरमुत्तमैर्निजगुणैः संसारपाथोनिधेः कल्लोलक्लवमानवप्रवरतासंधानविध्यापनम् । वन्देऽनिन्यसदागमार्थकथनप्रौढप्रपञ्चैः सदा कल्लोलप्लव मानवप्रवरता संघानविध्यापनम् ॥ ४ ॥ स्नानं तीर्थपतेरिदं सुजनताखानिः कलालालसं जीवातुर्जगतां कृपाप्रथनकृत्कृप्तं सुराधीश्वरैः । अङ्गीकुर्म इदं भवाच बहुलस्फूर्तेः प्रभावैर्निजैः स्नानं तीर्थपतेरिदं सुजनताखानिः कलालालसम् ॥ ५ ॥” शार्दूलविक्रीडितवृत्तानि । अनेन वृत्तपञ्चकेन कुसुमाञ्जलिप्रक्षेपः । "दूरीकृतो भगवतान्तरसंश्रयो यो ध्यानेन निर्मलतरेण स एव रागः । मुक्त्यै सिषेवि घुरमुं जगदेकनाथम विभाति निवसन् घुसृणच्छलेन ॥ १ ॥ अनेन वृत्तेन कुङ्कुमचचनं । शक्रस्तवपाठः ऊर्ध्वाधो० । अनेन वृत्तेन धूपदानम् ॥ पुनः कुसुमाञ्जलिं करे गृहीत्वा - "प्रभोः पादद्वन्द्वे वितरणसुधाभुक शिखरिणीव संभूतश्रेयो हरिमुकुट मालाशिखरिणी । विभाति प्रश्लिष्टा समुदयकथा वैशिखरिणी न तेज:पुञ्जाढ्या सुखरसनकाङ्गाशिखरिणी ॥ १ ॥ जगद्वन्द्या मूर्तिः प्रहरणविकारैश्व रहितो विशालां तां मुक्तिं सपदि सुददाना विजयते । विशालां तां मुक्तिं सपदि सुददाना विजयते दधाना संसारच्छिदुरपरमानन्द| कलिता ॥ २ ॥ भवाभासंसारं हृदिहरणकम्पं प्रति नयत् कलालम्बः कान्तप्रगुणगणनासादकरणः । तृतीयचतुर्थी पादौ प्रथमद्वितीयतुल्यावेव ज्ञेयौ ॥ ३ ॥ जयं जीवं भानुं बलिनमनिशं संगत इलाविलासः सत्कालक्षितिरलसमानो विसरणे । चतुर्थपद्येऽपि प्रथमद्वितीयपादौ तुल्यावेव तृतीयचतुर्थावेव ज्ञेयौ ॥ ४ ॥ अमायद्वेषोऽर्हन्नवनमनतिक्रान्तकरणैरमाद्यद्वेषोऽर्हन्नवनमनतिक्रान्तकरणैः । सदा रागत्यागी विलसदनवद्यो वि
For Private & Personal Use Only
विभागः २ प्रतिष्ठा
विधिः
॥ १८६ ॥
jainelibrary.org