SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ १८५ ॥ Jain Education Internat पञ्चरत्नादिवर्तनकारिणीभ्यो वस्त्रभूषणदानं स्लपनकारेभ्यः स्वर्णकटकमुद्रादानं अञ्जनपेषिण्यै कन्यायै वस्त्रभूपणमातृशादिकादानं । ततस्त्रिपञ्चसप्तनवदिनानि देशकालाद्यपेक्षया प्रतिष्ठादेवतास्थापनं नन्द्यावर्तरक्षणं च । तत्र प्रत्यहं उत्तरोत्तरस्नात्रपूजनविधिर्विधेयः । सचायमुच्यते । प्रथमं पूर्वोक्तश्राद्धदिनचर्यामध्यगताहत्कल्पोक्तविधिना जिनपूजनं आरात्रिककरणं च । ततः श्राद्धः स्नपनपीठं प्रक्षाल्य स्वयं स्नातानुलिप्तः शु|चिवस्त्रधारी कङ्कणस्वर्णमुद्राङ्कितहस्तो जिनोपवीतोत्तरासङ्गधर उत्तरासङ्गवसनेन मुखमाच्छाद्य चलस्थिरप्र|तिमाया अग्रतः स्थित एकाकी द्वित्रिचतुःपञ्चयुतो वा कुसुमाञ्जलिं सर्वैः समं करसंपुटे निधाय इति पठेत् ॥ - " लक्ष्मीरद्यानवद्यप्रतिभपरिनिगद्याद्य पुण्यप्रकर्षोत्कर्षैराकृष्यमाणा करतलमुकुलारोहमारोहति स्म । शश्वद्विश्वातिविश्वोपशमविशदतोङ्गा सविस्मापनीयं स्नात्रं सुत्रामयात्राप्रणिधि जिनविभोर्यत्समारब्धमेतत् ॥ १ ॥ कल्याणोल्लास लास्यप्रसृमरपरमानन्दकन्दायमानं मन्दामन्दप्रबोधप्रतिनिधिकरुणाकारकन्दायमानम् । लात्रं श्री तीर्थ भर्तुर्धनसमयमिवात्मार्थकन्दायमानं दद्याद्भक्तेषु पापप्रशमनमहिमोत्पादकं दायमानम् ॥ २ ॥ देवादेवाधिनाथप्रणमननवनानन्तसानन्तचारिप्राणप्राणावयान प्रकटितविकटव्यक्तिभक्तिप्रधानम् । शुक्लं शुक्लं च किंचिञ्चिदधिगमसुखं सत्सुखं नात्रमेतन्नन्द्यान्नन्द्याप्रकृष्टं दिशतु शमवतां संनिधानं निधानं ॥ ३ ॥ विश्वात्संभाव्य लक्ष्मीः क्षपयति दुरितं दर्शनादेव पुंसामासन्नो नास्ति यस्य त्रिदशगुरुरपि प्राज्यराज्यप्रभावे । १ राकृष्टमाना इति पाठः । For Private & Personal Use Only 1919 विभागः २ प्रतिष्ठाविधिः ॥ १८५ ॥ ainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy