________________
आचार
दिनकरः
॥ १८३ ॥
Jain Education Inte
नमो कुबुद्धीणं जमियं विज्जं परंजामि सा मे विजा पसिज्झउ ॐ अवतर २ सोमे २ ॐ वज्जु २ ॐ निवज २ सुमणसे सोमणसे महुमहुरे कविल ॐ कक्षः खाहा । अथवा ॐ नमः शान्तये हूं क्षं हूं सः अनेन सर्वागेषु हस्तन्यासेन बिम्बस्याधिवासनं । ततः शालि १ यव २ गोधूम ३ मुद्ग ४ वल्ल ५ चणक ६ चवलक ७ रूपैः सप्तधान्यैः पुष्पयुक्तैरञ्जलिभिराच्छादितबिम्बस्य स्वपनं । सप्तधान्यस्नपनवृत्तं यथा - "सर्वप्राणसमं सर्वधारणं सर्वजीवनम् । अजीवजीवदानाय भवत्वन्नं महार्चने ॥ १ ॥” पुष्पारोपणं धूपोत्क्षेपणं सर्वत्र । धूपो त्क्षेपवृत्तं यथा - " ऊर्ध्वगतिदर्शनालोकदर्शितानन्तरोर्ध्वगतिदानः । धूपो वनस्पतिरसः प्रीणयतु समस्तसुरवृन्दम् ॥ १ ॥” सपुत्राः सधवाश्चतस्रो बह्रयो वा स्त्रियो निरुंछनविधिं कुर्वन्ति, ताभ्यो हिरण्यदानं पुनर्वि स्वाग्रे प्रचुरमोदक पक्कान्नढौकनं, ततः षष्ट्यधिकशतत्रयक्रयाणकपृथक्पुटिकाढौकनं, श्राद्धा आरात्रिकावतारणं कुर्वन्ति, केचिन्मङ्गलं प्रदीपं च कुर्वन्ति, ततश्चैत्यवन्दनं ततोधिवासना देव्याराधनार्थ "करेमि काउस्सगं" गुरुश्राद्ध इति कायोत्सर्ग करोति “अन्नत्थ यावदप्पाणं वोसिरामि" चतुर्विंशतिस्तवचिन्तनं पारयित्वा स्तुतिकथनं यथा - "विश्वाशेषसुवस्तुषु मन्त्रैर्याजस्रमधिवसति वसतौ । सेमामवतरतु श्रीजिनतनुमधिवासनादेवी ॥ १ ॥" अथवा " पातालमन्तरिक्षं भवनं वा या समाश्रिता नित्यम् । सात्रावतरतु जैनीं प्रतिमामधिवासनादेवी ॥ १ ॥” ततः श्रुतदेवीशान्तिदेव्यम्याक्षेत्र देवीशासनदेवीसमस्तवैयावृत्तकरकायोत्सर्गाः स्तुतयश्च पूर्ववत् । पुनः शक्रस्तवकथनं ततो गुरुणोपविश्य बिम्बाग्रे स्वागताः जिनाः सिद्धाः प्रसाददा
For Private & Personal Use Only
विभागः २ प्रतिष्ठाविधिः
॥ १८३ ॥
v.jainelibrary.org