________________
आ. दि. ३२
Jain Education Interop
बिम्बं भवति तदा नन्द्यावर्तमध्ये स्थिरबिम्बं तु मनसा तत्र स्थापयेत् तत एकनवत्युत्तरद्विशतहस्तमात्रेण सदशवस्त्रेण नन्द्यावर्तपट्टमाच्छादयेत्, नन्द्यावर्ताच्छादनोपरि नानाविधनालिकेर बीजपूरनारिंगपन सद्राक्षा|दिसुमधुर सुगन्धशुष्काईफलाढौकनं खाद्यकन्दजातिढौकनं च ततो वेदिकायां चतुष्कोणेषु चतुर्गुणकुमारीकर्तितसूत्रवेष्टनं बाह्ये ततश्चतुर्दिक्षु धवलितस्थपनकोपरि यववारकस्थापनं, एकस्या एकस्या घटपरम्परायाचतुर्दिक्षु इत्यर्थः, अनया युक्त्या षोडश भवन्ति, यववारास्तु यवत्रीयङ्कुरमयाः, ततश्चतुर्षु वेदिकोणेषु बाट १ क्षीरेयी २ करम्ब ३ कृसरा ४ कुर ५ चूरिमापिंडि ६ पूपक ७ भृताः सप्त २ शरावाः स्थाप्यन्ते । ततश्च - त्वारः स्वर्णकलशा मृत्कलशा वा चन्दनचर्चिताः सकंकणाः सखर्णमुद्राः सजलाः सपिधानाः नन्द्यावर्तचतुकोणेषु धवलस्थपनकेषु स्थाप्याः, घृतगुडसहितमङ्गलप्रदीपचतुष्टयं नन्द्यावर्तपट्टचतुर्दिक्षु स्थापयेत् । पुनश्च|तुर्दिक्षु सहिरण्यसकपर्दिकरक्षासहितजलधान्यसहित चतुर्वारकस्थापनं, तेषु सुकुमारिकापूजाकङ्कणवन्धः, तेषामुपरि चतुर्यववारकस्थापनं, तेषां च चतुर्गुणेन कौसुम्भसूत्रेण प्रत्येकं वेष्टनम्, ततः शक्रस्तवेन चैत्यवन्दनं, ततोधिवासनालग्नसमये समासन्ने पुष्पसमेतऋद्धिवृद्धिमदनफलारिष्टकङ्कणारोपणं बिम्बस्य नवेन सदशेन चतुर्विंशतिहस्तप्रमाणेन चन्दनचर्चितेन पुष्पान्वितेन श्वेतवस्त्रेण बिम्बाच्छादनं, पार्श्ववेष्टने मातृशाटिका एका च देया, तदुपरि चन्दनच्छटाः पुष्पपूजनं च, ततो गुरुर्बिम्बस्याधिवासनं करोति । अधिवासनामत्रो यथा “ॐ नमो खीरासवलद्धीणं ॐ नमो महुआसवलीणं ॐ नमो संभिन्नसोईणं ॐ नमो पयाणुसारीणं ॐ
For Private & Personal Use Only
ainelibrary.org