________________
IP सन्तु, प्रसादं धिया कुर्वन्तु, अनुग्रहपरा भवन्तु, भव्यानां खागतमनुखागतमिति विज्ञप्तिकावचने धारणा कार्या । इत्यधिवासनाविधिः।
अधिवासनारात्री दिवा प्रतिष्ठा प्रायः करणीया । इतरथा समासन्नयोरधिवासनाप्रतिष्ठालग्नयोः किंचिकालं विलम्ब विधाय अधिवासनातो विभिन्न लग्ने प्रतिष्ठा कार्या। तस्य चायं विधिः-प्रथमं "उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वादुनिमित्तादि । संपादितहितसंपन्नामग्रहणं जयति शान्तः॥१॥” इति वृत्तेन सर्वदिक्ष सजलं शान्तिबलिदानम् । ततश्चैत्यवन्दनम् । प्रतिष्ठादेवतायाः कायोत्सर्गः । चतुर्विशतिस्तवचिन्तनं पारयित्वा स्तुतिश्च यथा-"यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनबिम्बं प्रविशतु सदेवता सुप्रतिष्ठमिदम् ॥१॥” ततः शासनदेवीक्षेत्रदेवीसमस्तवैयावृत्यकरकायोत्सर्गाः स्तुतयश्च पूर्ववत् । ततो धूपोत्क्षेपः। ततः प्रतिष्ठालग्ने गुरुः सर्वजनं दूरीकृत्य परिच्छदां बध्वा बिम्बस्य वस्त्रमपनयेत् । घृतपूर्णपात्रं पुरो ढोकयेच्च । ततो रूप्यपात्रस्थापितसौवीरघृतमधुशर्करापिष्टमिलितं स्वर्णशलाकया गृहीत्वा प्रतिमानेत्रोन्मीलनं करोति वर्णन्यासपूर्वकम् । हां ललाटे। श्री नयनयोः । ह्रीं हृदये। सर्वसंधिषु । लौं प्राकारः। कुम्भकेन न्यासः। शिरसि अभिमश्रितवासदानं मूरिमन्त्रेण वासाभिमन्त्रणमाचार्यपदयुक्तिवत् । ततः चन्दनाक्षतपूजिते बिम्बदक्षिणकर्णे सप्तवेलमाचार्यमन्त्रकथनं ततस्त्रिपञ्चसप्तवारान प्रतिष्ठामन्त्रेण दक्षिणहस्तेन बिम्ब
१सा विशतु इति पाठः ।
ALIGANGANAGANA
Jan Education Intera
For Private & Personal Use Only
Kiraw.jainelibrary.org