SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ देशकुलादितः ॥ १०॥ पितृमातृगिरा यस्तु सङ्गमो वरकन्ययोः । ज्ञेयो विवाहधर्मः स विधिना येन केनचित् । ॥११॥ बहनाडंबरेणापि बहुद्रव्यव्ययेन च । ज्ञेयः पापविवाहः स पितृमातृवचोविना ॥१२॥ अत्रान्तः कथितो यस्तु स वेदोक्तो विधिः परः । देशान्वयव्यवहारादन्यः कार्यः पृथग्विधः ॥१३॥" नलिखचउ वेश्यायाः सर्वकामुककाम्याया विवाहविधिरुच्यते । स चायं । पूर्वोक्ते विवाहलग्ने शुद्धे कुमारिका भाविनी वेश्यां लातविलिप्तालङ्कतां कृतकौतुकमाङ्गल्यां वेश्याजनपरिवृतां समीपस्थबहुगीतवादित्रां गृह्यगुरुर्मदनप्रासादे स्थापितमदनसमीपे वा समानयेत् । ततस्तस्या द्वावपि हस्तौ कौसुंभसूत्रेण प्रतिमामदनहस्ताभ्यां सह बनीयात् । ततः पञ्चबाणमन्त्रेण अष्टोत्तरशतपठितेन कुशाग्रोद्धतेन गन्धोदकेन तामभिषिञ्चेत् । ततो गृह्यगुरुर्वेदमन्त्रं पठन् तत्प्रतिमायाः तां त्रिः प्रदक्षिणयेत् । मन्त्रो यथा-"ॐ अहं कामोऽसि, अभिलाषासि, चित्तजन्मासि, सङ्कल्पजन्मासि, काम्योऽसि, सेव्योऽसि, प्रियोऽसि, मान्योऽसि, शब्दोऽसि, रूपो सि, रसोऽसि, गन्धोऽसि, स्पर्शोऽसि, सर्वगोऽसि, सर्वव्यापकोऽसि, सर्वार्थोऽसि, आनन्ददोऽसि, ऊह्योजाऽसि, मदनोऽसि, मथनोऽसि, उन्मादनोऽसि, मोहनोऽसि, तापनोसि, शोषणोऽसि, मारणोऽसि, विकृति-13 इति मन्थेन सूत्रसम्मतेन पित्रादि निरपेक्षो वरवधूप्रीतिमात्रपर्याप्ततिकर्तव्यो विवाहो धर्म्य इति वादिनः परास्ताः । २ ईशः प्रयोगः पुनः | पुनरायातीति न परिवृत्यते. Jain Education Inter For Private & Personal Use Only H oww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy