SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः१ विवाहवि. ॥४०॥ वत् । साधुभ्यो वस्त्रपात्रदानं । ज्ञानपूजा विप्रेभ्योऽपरमार्गणेभ्यो यथासंपत्ति दानं । तथा च देशकुलसमयान्तरे विवाहलग्ने प्राप्ते वरे श्वशुरगृहं प्रविष्टे षडाचारकरणं । पूर्वमङ्गणे आसनदानं, श्वशुरः कथयति, "विष्टरं प्रतिगृहाण ।" वरः कथयति, "ॐ प्रतिगृह्णामि" इत्यासने उपविशति । ततः श्वशुरो वरस्य पादौ प्रक्षालयेत्। ततोऽर्घदानं दधिचन्द नाक्षतदूर्वाकुशपुष्पश्वेतसर्षपजलैःश्वसुरो जामाने अर्घ ददाति । तथाचमनदानं । ततोगन्धाक्षतपूजातिलककरणं ततो मधुपर्कप्राशनं इति विष्टरपाद्यार्थ्याचमनीयगन्धमधुपकैः षडाचाराः। ततो गृहान्तः वधूवरयोः परस्परं दृष्टिसंयोगः परस्परं द्वयोर्नामग्रहणं शेषं पूर्ववत्-"इति देशकुलाचारैर्वि. वाहस्य विधिः परः। विधेयश्च स्वसंपत्तिबन्धपक्षानुसारतः ॥१॥ मूलशास्त्रं समालोक्य विधिरेष प्रदर्शितः। खदेशकुलजाचारः परो ज्ञेयो महात्मभिः ॥२॥ वरकार्य रात्रिमातृकुलदेव्यादिपूजनम् । स्वखवंशानुसारेण | ४/विधेयं स्याद्यथाविधि ॥३॥ वेद्यानयनकर्मापि तथा मण्डपबन्धनम् । कुलवृद्धादिवचनैर्विधेयं विधिवेदिभिः ॥४॥ कार्यः कङ्कणबन्धस्तु विवाहादौ कुलोचितः । विवाहान्ते तस्य मोक्षः कार्यों वृद्धगिरा परम् ॥५॥ ऊर्णामयं सूत्रमयं कौशेयमयमित्यपि । परे मुञ्जमयं प्राहुः कङ्कणं कुलयुक्तितः॥ ६॥ केचिन्मातृगृहे प्राहुदै | पत्योः करबन्धनम् । मधुपर्काशनात्पश्चात्परे वेद्यासनस्थयोः॥७॥ अग्निप्रदक्षिणाकाले शिलालोष्ट्रोः पदेन च वध्वाः स्पर्शनमित्याहुः परे नैवच किञ्चन ॥ ८॥ कचिद् देशान्तरे चैव वरकन्यासमागमे । विवाहमाहुः कुत्रापि तयोरञ्चलकर्षणात् ॥९॥ देशाचारे विवाहान्तरुपहासं च गानतः। मिथः कुर्वन्ति महिला ज्ञेयो ॥४०॥ Jain Education Inter For Private & Personal use only w w w.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy