SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ऐलानुबन्धि ॥१॥” इत्युक्त्वा पूर्वोक्तविधिनाञ्चलमोचनं कृत्वा, "वत्सौ ! लब्धविषयौ भवता" इति गुर्वनु ज्ञातौ दंपती विविधविलासिनीगणवेष्टितौ शृङ्गारगृहं प्रविशतः। तत्र पूर्वस्थापितमदनस्य कुलवृद्धानुसारेण मदनपूजनं कुरुतः । ततः वधूवरयोः सममेव क्षीरानभोजनं ततो यथायुक्त्या सुरतप्रचारः । ततस्तथैवागमनरीत्या सोत्सवं स्वगृहं व्रजतः । ततो वरस्य मातापितरौ वधूवरयोः निरुञ्छनमङ्गलविधिं खदेशकुलाचारेण कुरुतः। कङ्कणबन्धनकङ्कणमोचनद्यूतक्रीडावेणीग्रन्थनादिकर्माणि सर्वाण्यपि तद्देशकुलाचारेण कर्त्तव्यानि ।। विवाहात्पूर्व वधूवरपक्षद्वयेऽपि भोजनदानं । तदनन्तरं धूलिभक्तजन्यभक्तप्रभृति देशकुलाद्याचारेण । ततः | सप्ताहानन्तरं वरवधूविसर्जनं । तस्य चायं विधिः, सप्ताहं विविधभत्त्या पूजितस्य जामातुः पूर्वोक्तरीत्या अञ्चलग्रन्थनं विधाय अनेकवस्तुदानपूर्व तेनैवाडंबरेण स्वगृहपापणं कुर्यात् । ततः ससरात्रिकमासिकषाण्मासिकवार्षिकमहोत्सवकरणं खकुलसंपत्तिदेशाचारानुसारेण विधेयं । सप्सरावानन्तरं मासानन्तरं वा कुलाचारानुसारेण कन्यापक्षे मातृविसर्जनं पूर्वोक्तरीत्या करणीयं । गणपतिमदनादिविसर्जनविधिोकप्रसिद्धः । वरपक्षे कुलकरविसर्जनविधिस्तु कथ्यते। कुलकरस्थापनानन्तरं नित्यं कुलकरपूजा विधेया । विसर्जनकाले कुलकरान संपूज्य गृह्यगुरुः पूर्ववत्, "ॐ अमुककुलकराय" इत्यादि पूर्ववत्संपूर्ण मन्त्रं पठित्वा, "पुनरागमनाय खाहा” इति सर्वानपि कुलकरान विसर्जयेत् , "ॐ आज्ञाहीनं क्रियाहीनं मन्त्रहीनं च यत्कृतम् । तत्सर्वं कृपया देव क्षमख परमेश्वर ॥१॥” इति कुलकरविसर्जनविधिः । ततो मण्डलीपूजा गुरुपूजा वासक्षेपादि पूर्व BROCCASSESAMACADACA5 CAKACANCHAR lan Education Internal For Private & Personal use only T w w.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy