________________
आचार- दिनकरः
विभागः१ विवाहवि.
॥ ३९॥
MAGECAUSESAKACOCOCC
भूषणहस्त्यादिदायदानेषु वधूपितुर्वरस्य इदमेव वाक्यं अयमेव विधिः । ततः सर्ववस्तुषु दत्तेषु गुरुरिति कथ- येत्, "वधूवरौ वां पूर्वकर्मानुसंबन्धेन निबिडेन निकाचितबद्धेन अनुपवर्तनीयेन अघातनीयेन अनुपायेन अश्लथेन अवश्यभोग्येन विवाहः प्रतिबद्धो बभूव, तदस्त्वखण्डितोऽक्षयोऽव्ययो निरपायो निर्व्याबाधः सुख
लवन अवश्यभाग्य दोऽस्तु, शान्तिरस्तु, पुष्टिरस्तु, ऋद्धिरस्तु, वृद्धिरस्तु, धनसन्तानवृद्धिरस्तु।" इत्युक्त्वा तीर्थोदकैः कुशाग्रेणाभिषिञ्चेत् । पुनर्गुरुस्तथैव वधूवरावुत्थाप्य मातृगृहं नयेत् । तत्र नीत्वा वधूवरयोरिति वदेत्, "अनुष्ठितो वां विवाहो वत्सौ! सलेहौ, सभोगौ, सायुषी, सधौं, समदुःखसुखौ, समशत्रुमित्रौ, समगुणदोषी, समवाङ्मनाकायौ, समाचारौ, समगुणौ भवतां ।" ततः कन्यापिता करमोचनाय गुरुं प्रति वदति । गुरुरिति वेदमन्त्रं पठेत् , “ॐ अहं जीव त्वं कर्मणा बडः, ज्ञानावरणेन बद्धः, दर्शनावरणेन बद्धः, वेदनीयेन बद्धः, मोहनीयेन बद्धः, आयुषा बद्धो, नाम्ना बद्धो, गोत्रेण बद्धः, अन्तरायेण बद्धः, प्रकृत्या बद्धः, स्थित्या बद्धः, रसेन बद्धा, प्रदेशेन बद्धः, तदस्तु ते मोक्षो गुणस्थानारोहक्रमेण अह ॐ।" इति वेदमनं पठित्वा पुनरिति वदेत्, "मुक्तयोः करयोरस्तु वां स्नेहसंबन्धोऽखण्डितः।" इत्युक्त्वा करौ मोचयेत् । कन्यापिता करमोचनपर्वणि जामात्रा प्रार्थितं खसंपत्त्यनुसारि वा बहु वस्तु दद्यात् । तद्दानविधिः, पूर्वयुक्त्यैव ततः पुनातगृहादुत्थाय पुनर्वेदिगृहमागच्छतः। ततो गृह्यगुरुरासनोपविष्टयोस्तयोरिति वदेत्-"पूर्व युगादिभगवान् विधिनैव येन विश्वस्य कार्यकृतये किल पर्यणैषीत् । भार्याद्वयं तदमुना विधिनास्तु युग्ममेतत्सुकामपरिभोगफ
॥३९॥
*
Jan Education Intern
For Private & Personal Use Only
R
ww.jainelibrary.org