________________
NAGACASSAGARMA
हस्तान्तराले इति जलं निक्षेपयेत् । वरः कथयति-"प्रतिगृह्णामि प्रतिगृहीता।” गुरुः कथयति, "सुप्रतिगृहीतास्तु, शान्तिरस्तु, पुष्टिरस्तु, ऋद्धिरस्तु, वृद्धिरस्तु, धनसन्तानवृद्धिरस्तु, ततः पूर्वे लाजात्रये वरहस्तोप-|
रिस्थं कन्याहस्तं अधः कुर्यात् । वरहस्तं चोपरि कुर्यात् । ततो वरवध्वावासनादुत्थाप्य वरं पुरः कुर्यात् वधूं| ४च पश्चात् । ततो लाजमुष्टिं वह्नौ निक्षिप्य गृह्यगुरुरिति कथयेत्-"प्रदक्षिणीक्रियतां विभावसुः।” वरव-13
ध्वोर्हताशं प्रदक्षिणीकुर्वतोः कन्यापिता यावत्कुलज्येष्ठो वा सर्व वरवध्वोर्देयं वस्तु वस्त्राभरणवर्णरूप्यताम्रकांस्यभूमिनिष्क्रयकरितुरगदासीगोवृषपल्यऋतूलिकोच्छीर्षकदीपशस्त्रपाकभाण्डप्रभृति सर्व वेद्यन्तः समा|हरेत् । अन्येऽपि तदीया बन्धुसंबन्धिसुहृदादयः खसंपदानुसारेण तत्पूर्वोक्तं वस्तु वेद्यन्तरानयन्ति । ततः प्रदक्षिणान्ते वरवध्वौ तथैवासने उपविशतः । नवरं चतुर्थलाजानन्तरं वरस्यासनं दक्षिणे वध्वा आसनं वामे । ततो गृह्यगुरु: कुशदक्षतवासपूर्णकरः इति कथयेत्-"येनानुष्ठानेनाद्योऽर्हन् शक्रादिदेवकोटिपरिवृतो भोग्यफलकर्म भोगाय संसारिजीवव्यवहारमार्गसंदर्शनाय सुनन्दासुमङ्गले पर्यणैषीत्, ज्ञातमज्ञातं वा तदनुष्ठानमनुष्ठितमस्तु।" इत्युक्त्वा वासदूर्वाक्षतकुशान् वरवधूमस्तके क्षिपेत् । ततो गृह्यगुरुणादिष्टो वधूपिता जलं यवतिलकुशान् करे गृहीत्वा वरकरे दत्वा इति वदेत्, “सुदायं ददामि प्रतिगृहाण ।” वरः कथयति, "प्रतिगृह्णामि प्रतिगृहीतं परिगृहीतं ।” गुरुः कथयति, "सुगृहीतमस्तु सुपरिगृहीतमस्तु । पुनस्तथैव वस्त्र
१ इदं पुस्तकादीनामुपलक्षणम् व्यवस्था शक्त्या जात्या वा कार्या । क्षत्रियस्य शस्त्रं प्रधानमन्येषामप्यावश्यकम्.
Jan Education Intern
For Private & Personal use only
R
ww.jainelibrary.org