________________
आचारदिनकरः
SAMAC4%84%CE
तोऽस्तु, सुनिष्ठितोऽस्तु, सुसंबद्धोऽस्तु, आभवमक्षयोऽस्तु तत्प्रदक्षिणीक्रियतां विभावसुः ।” पुनरपि तथैव विभागः १ वहिं प्रदक्षिणीकुर्यात् । इति द्वितीयलाजाकर्म । चतसृष्वपि लाजासु प्रदक्षिणाप्रारंभे वधूही लाजामुष्टिं विवाहवि. क्षिपेत् । ततस्तयोस्तथैवोपविष्टयोगुरुरिति वेदमन्त्रं पठेत्-"ॐ अर्ह कर्मास्ति, वेदनीयमस्ति, सातमस्ति, असातमस्ति, सुवेद्यं सातं दुर्वेद्यमसातं, सुवर्गणाश्रवणं सातं दुर्वर्गणाश्रवणमसातं, शुभपुद्गलदर्शनं सातं, दुष्पुद्गलदर्शनमसातं, शुभषडूसास्वादनं सातं अशुभषडूसाखादनमसातं, शुभगन्धाघाणं सातं अशुभगन्धाघ्राणमसातं, शुभपुद्गलस्पर्शः सातं अशुभपुद्गलस्पर्शोऽसातं, सर्व सुखकृत्सातं सर्व दुःखकृदसातं, अहं ॐ।” इति वेदमन्त्रं पठित्वा इति कथयेत्-"तदस्तु वां सातवेदनीयं माभूदसातवेदनीयं तत्प्रदक्षिणीक्रियतां विभावसुः।” इति वैश्वानरं प्रदक्षिणीकृत्य वधूवरौ तथैवोपविशतः इति तृतीयलाजाकर्म । ततो गृह्यगुरुरिति वेदमन्त्रं पठेत्-"ॐ अहं सहजोऽस्ति, स्वभावोऽस्ति, संबन्धोऽस्ति, प्रतिबद्धोऽस्ति, मोहनीयमस्ति, वेदनीयमस्ति, नामास्ति, गोत्रमस्ति, आयुरस्ति, हेतुरस्ति, आश्रवबद्धमस्ति, क्रियावद्धमस्ति, कायबद्धमस्ति, तदस्ति सांसारिकः संबन्धः अह ॐ।" इति वेदमनं पठित्वा कन्यायाः पितुः पितृव्यस्य भ्रातुः कुलज्येष्ठस्य वा हस्तं | तिलयवकुशदूर्वागभैण जलेन पूरयित्वा इति वदेत्, “अद्यामुकसंवत्सरे अमुकायने अमुकत्तौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवारे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकमुहर्ते पूर्वकर्मसंबन्धानुबद्धां ॥३८॥ वस्त्रगन्धमाल्यालङ्कतां सुवर्णरूप्यमणिभूषणभूषितां ददात्ययं, प्रतिगृह्णीष्व" इति कथयित्वा वधूवरयोर्युक्त
-3-45-%ACAMACHC-COLORROCE
www.jainelibrary.org
Jain Education inte
For Private & Personal Use Only
%