SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ACCACCESSSCRECASSAGAR नादि कर्म, अनादिः संबन्धो देहिनां देहानुगतानुगतानां क्रोधाहङ्कारच्छद्मलोभैः संज्वलनप्रत्याख्यानवरणानन्तानुबन्धिभिः शब्दरूपरसगन्धस्पशैरिच्छानिच्छापरिसङ्कलितैः संबन्धोऽनुबन्धः प्रतिबन्धः संयोगः सुगमः सुकृतः सुनिवृत्तः सुतुष्टः सुपुष्टः सुप्राप्तः सुलब्धो द्रव्यभावविशेषेण अहं ॐ” इति मन्त्रं पठित्वा पुनरिति कथयेत् । “तदस्तु वां सिद्धप्रत्यक्षं, केवलिप्रत्यक्षं, चतुर्निकायदेवप्रत्यक्षं, विवाहप्रधानाग्निप्रत्यक्षं, नाम प्रत्यक्षं, नरनारीप्रत्यक्षं, नृपप्रत्यक्षं, जनप्रत्यक्षं, गुरुप्रत्यक्षं, मातृप्रत्यक्षं, पितृप्रत्यक्षं, मातृपक्षप्रत्यक्षं, पितृपक्षदीप्रत्यक्षं, ज्ञातिस्वजनबन्धुप्रत्यक्षं, संबन्धः सुकृतः, सदनुष्ठितः सुप्राप्तः सुसङ्गतः तत् प्रदक्षिणीक्रियतां तेजो राशिर्विभावसुः।” इति कथयित्वा तथैव अथिताञ्चलौ वधूवरौ वैश्वानरं प्रदक्षिणीकुरुतः । तथा प्रदक्षिणीकृत्य तथैव पूर्वरीत्योपविशतो लाजात्रयस्य प्रदक्षिणात्रये पुरतो वधूः पश्चाद्वरः दक्षिणे वध्वासनं वामे वरासनं इति प्रथमलाजाकर्म । तत आसनोपविष्टयोस्तयोर्गुरुर्वेदमन्त्रं पठेत् । “ॐ अहं कर्मास्ति, मोहनीयमस्ति, दीर्घस्थितिरस्ति,निबिडमस्ति, दुश्छेद्यमस्ति, अष्टाविंशतिप्रकृतिरस्ति, क्रोधोऽस्ति, मानोऽस्ति,मायास्ति, लोभोऽस्ति, संज्वलनोऽस्ति, प्रत्याख्यानावरणोऽस्ति, अप्रत्याख्यानावरणोऽस्ति, अनन्तानुबन्ध्यस्ति, चतुश्चतुर्विधोऽस्ति, हास्यमस्ति, रतिरस्ति, अरतिरस्ति, भयमस्ति, जुगुप्सास्ति, शोकोऽस्ति, पुंवेदोऽस्ति, स्त्रीवेदोऽस्ति, नपुंसकवेदोऽस्ति, मिथ्यात्वमस्ति, मिश्रमस्ति, सम्यक्त्वमस्ति, सप्ततिकोटाकोटिसागरस्थितिरस्ति, अहं ॐ।" इति वेदमनं पठित्वा पुनरिति कथयेत्-"तदस्तु वां निकाचितनिबिडबद्धमोहनीयकर्मोदयकृतः लेहः सुकृ Jain Education Internet For Private & Personal use only ww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy