________________
आचार
दिनकरः
॥ ३६ ॥
Jain Education Intern
चैवं । तन्मन्त्रो यथा - "ॐ ह्रीं श्रीं नमो द्वारश्रिये सर्वपूजिते सर्वमानिते सर्वप्रधाने इह तोरणस्था सर्व समीहितं देहि २ खाहा ।" इति तोरणप्रतिष्ठा । ततोऽग्निकुण्डे वेदिमध्याग्नेयकोणेऽग्निं न्यसेत् मन्त्रपूर्वं । अग्निन्यासमन्त्रो यथा - "ॐ रं रं रीं रौं र नमोऽग्नये, नमो वृहद्भानवे, नमोऽनन्ततेजसे, नमोऽनन्तवीर्याय, नमोऽनन्तगुणाय नमो हिरण्यरेतसे नमः छागवाहनाय नमो हव्याशनाय, अत्र कुण्डे आगच्छ २, अवतर २, उत्तिष्ठ २, स्वाहा ।” समयान्तरे देशान्तरे कुलान्तरे च हस्तलेपनं वेद्यन्तरेव कुर्वन्ति । देशकुलाचारादौ मधुपर्कप्राशनानन्तरं वेदिहस्तलेपात् प्रथमं परस्परं कम्बायुद्धकण्ठायुधवधूवरास्फाल नवेडानयनमणिग्रथनस्तानभ्राष्ट्रकर्मपर्याणकर्मवस्त्रकौसुंभसूत्राकर्षणप्रभृतिकर्माणि कुर्वन्ति । तानि च देशविशेषाल्लोकेभ्यो विज्ञेयानि न व्यवहारशास्त्रपूतानि । परं स्त्रीभिः सौभाग्यप्राप्तये सपत्न्याद्यभावाय वरवशीकरणाय च क्रियन्ते । ततो वधूवरौ युक्तहस्तावेव नारीनरकट्या रूढौ गीतवाद्यादिडंबरे महति दक्षिणद्वारेण प्रवेश्य वेदिमध्यमानयेत् । ततो देशकुलाचारेण काष्ठासनयोर्वेत्रासनयोः सिंहासनयोः अधोमुखीकृत्य शरमयखार्यार्वा वधूवरौ पूर्वाभिमुखावुपवेशयेत् । तथा हस्तलेपे वेदिकर्मणि च कुलाचारानुसारेण सदशकौरवस्त्राणि वा कौसुंभवस्त्राणि वा स्वभाववस्त्राणि वधूवरयोः परिधाप्यन्ते । ततो गृह्यगुरुरुत्तराभिमुखः मृगाजिनासीनो वह्निं शमीपिप्पलकपित्थकुटजबिल्वामलक समिद्भिः प्रबोध्य अनेन मन्त्रेण घृतमधुतिलयवनानाफलानि जुहुयात् । मन्त्रो यथा – “ ॐ अॐ अग्ने प्रसन्नः सावधानो भव, तवायमवसरः, तदाकारयेन्द्रं
For Private & Personal Use Only
विभागः १ विवाहवि.
॥ ३६ ॥
www.jainelibrary.org