________________
Jain Education Internat
ष्टितोऽसि, समाभिलाषोऽसि, समेच्छोऽसि, समप्रमोदोऽसि, समविषादोऽसि, समावस्थोऽसि, समनिमितोऽसि, समवचा असि, समक्षुत्तृष्णोऽसि, समगमोऽसि, समागमोऽसि, समविहारोऽसि, समविषयोऽसि, समशब्दोऽसि, समरूपोऽसि, समरसोऽसि, समगन्धोऽसि, समस्पर्शोऽसि, समेन्द्रियोऽसि समाश्रवोऽसि, समबन्धोऽसि, समसंवरोऽसि, समनिर्जरोऽसि, सममोक्षोऽसि, तदेह्येकत्वमिदानीं अर्ह ॐ ।” इति हस्तवन्धनमन्त्रः । अत्र समयान्तरे देशान्तरे कुलान्तरे लग्नसाधनवेलायां मधुपर्कप्राशनं वराय गोयुग्मदानं कन्याया आभरणपरिधापनं इत्यादि कुर्वन्ति । ततः वधूवरयोः मातृगृहोपविष्टयोः सतोः कन्यापक्षीया वेदिरचनां कुर्वन्ति । तस्या विधिरयं कैश्चित् काष्ठस्तंभैः काष्ठाच्छादनैः मण्डपान्तश्चतुष्कोणा वेदी क्रियते । कैचिच्च यथोपरि लघुलघुभिश्चतुष्कोणनिहितैरुपर्युपरिधृतैः खर्णरूप्यताम्रमृत्कलशैः सप्त सप्त सङ्ख्यैः चतुःपार्श्वचतुश्चतुरार्द्रवंशबद्धैर्वेदी क्रियते । चतुर्ष्वपि धारेषु वस्त्रमयानि काष्ठमयानि वा तोरणानि वन्दनमालिकाश्च । अन्तस्त्रिकोणमग्निकुण्डं । ततो गृह्यगुरुः पूर्वोक्तवेषधारी वेदीप्रतिष्ठां कुर्यात् । तस्याश्चायं विधिः- वासपुष्पाक्षत परिपूर्णहस्तः, "ॐ नमः क्षेत्रदेवतायै शिवायै क्ष क्ष क्ष क्ष क्षः इह विवाहमण्डपे आगच्छ २, इह बलिपरिभोग्यं गृहे २ भोगं देहि, सुखं देहि यशो देहि, सन्ततिं देहि, ऋद्धिं देहि, वृद्धिं देहि, सर्वसमीहितं देहि देहि स्वाहा ।” इति पठित्वा चतुर्ष्वपि कोणेषु प्रत्येकं वासमाल्याक्षतक्षेप: । तोरणस्य प्रतिष्ठा
१ गृहाणेत्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org