________________
आचार
दिनकरः
॥ ३४ ॥
Jain Education Inter
स्वगृहे मङ्गलगीतवादिचवादनपूर्व तैलाभिषेकः स्नानं च विवाहपर्यन्तं नित्यं तथैव वधूवरयोः स्नानं । प्रथमतैलाभिषेकदिने वैरगृहात्कन्यागृहे तैलशिरः प्रसाधनगन्धवस्तुद्राक्षादिखाद्यशुष्क फलप्रेषणं सर्वैर्नागरवधूजनैर्वरगृहे कन्यागृहे च तैलधान्यादिढौकनं विधेयं । वधूवरगृहसत्कवृद्धनारीभिः ताभ्यो धान्यतैलढौकनीभ्यो नारीभ्यः अपूपादि पकानं देयं । तत्र धारणाप्रभृति देशाचारकुलाचारैर्विधेयं । तैलाभिषेक कुलकरगणेशादिस्थापनं कङ्कणबन्धनमन्यविवाहोपचारादि सर्व वधूवरयोश्चन्द्रबले वैवाहिके नक्षत्रे च विधेयं । तथा धूलि भक्तकौर भक्त सौभाग्यजलानयनप्रभृति मङ्गलकर्म मङ्गलगीतवाद्यसहितं देशाचारकुलाचारविशेषाद्विधेयं । ततो यदि वरोऽन्यत्र ग्रामान्तरे नगरान्तरे देशान्तरे वा भवति तदा तस्य यज्ञयात्रा कन्यानिवासस्थानं प्रति विधीयते तस्यायं विधिः । एकस्मिन् प्रथमेऽहनि मातृपूजापूर्व पूर्वेषां जनानां भोजनं देयं । ततो द्वितीयेऽह्नि वरः सुलातश्चन्दनानुलिप्तः सर्ववस्त्रगन्धमाल्य संस्कृतः किरीटभूषितशिरा अश्वाधिरूढो गजाधिरूढो वा नरयानाधिरूढो वा चलति । तत्समीपे जनाः सुवसनाः सप्रमोदाः सतांबूलवदनाः संबन्धिज्ञातिजनाः स्वसंपत्त्या तुरंगाद्यधिरूढाः पदातयो वा वरेण सार्द्ध चलन्ति । पार्श्वयोरुभयोर्मङ्गलगानप्रसक्ताः चलन्ति ज्ञातिनार्यः । पुरतोऽस्य ब्राह्मणा ग्रहशान्तिमत्रं पठन्तश्चलन्ति । स यथा – “ ॐ अर्ह आदिमोडईन्, आदिमो नृपः आदिमो नियन्ता, आदिमो गुरुः, आदिमः स्रष्टा, आदिमः कर्ता, आदिमो भर्त्ता,
१ वरगृहे कन्यागृहे च इति पुस्तकान्तरे । २ 'माल्यालङ्कृतः' इत्यपि ।
For Private & Personal Use Only
विभागः १ विवाहवि.
॥ ३४ ॥
www.jainelibrary.org