________________
Jain Education Intern
ॐ दीपं नमः, ॐ उपवीतं नमः, ॐ भूषणं नमः, ॐ नैवेद्यं नमः, ॐ तांबूलं नमः । पूर्वेण मन्त्रेण आह्वाय संस्थाप्य संनिहितां कृत्य अर्घ्यपाद्यवलिचर्याचमनीयदानं दद्यात् । अपरे ॐकारादिभिर्मन्त्रैर्गन्धतिलकद्वयं पुष्पद्वयं धूपद्वयं दीपद्वयं उपवीतमेकं स्वर्णमुद्राद्वयं नैवेद्यद्वयं तांबूलद्वयं दद्यात् १ ततः द्वितीयस्थाने – “ ॐ नमो द्वितीयकुलकराय, श्यामवर्णाय श्यामवर्णचन्द्रकान्ताप्रियतमासहिताय, हाकारमात्रख्यापितन्यायपथाय, चक्षुष्मदभिधानाय, शेषं पूर्ववत् २ ॐ नमस्तृतीयकुलकराय, श्यामवर्णाय, श्यामवर्णसुरूपाप्रियत| मासहिताय, माकारमात्रख्यापितन्यायपथाय यशस्व्यभिधानाय, शेषं पूर्ववत् ३ ॐ नमश्चतुर्थकुलकराय, श्वेतवर्णाय श्यामवर्णप्रतिरूपाप्रियतमासहिताय, माकारमात्रख्यापितन्यायपथाय, अभिचन्द्राभिधानाय, शेषं पूर्ववत् ४ ॐ नमः पञ्चमकुलकराय, श्यामवर्णाय, श्यामवर्णचक्षुः कान्ताप्रियतमासहिताय, धिक्कारमात्रख्यापितन्यायपथाय, प्रसेनजिदभिधानाय, शेषं पूर्ववत् ५ ॐ नमः षष्ठकुलकराय, स्वर्णवर्णीय श्यामवर्णश्रीकान्ताप्रियतमासहिताय, धिक्कारमात्रख्यापितन्यायपधाय, मरुदेवाभिधानाय, शेषं पूर्ववत् ६ ॐ नमः सप्तमकुलकराय, काञ्चनवर्णाय, श्यामवर्णमरुदेवाप्रियतमासहिताय, धिक्कारमात्रख्यापितन्यायपथाय, नाभ्यभिधानाय शेषं पूर्ववत् ७ ॥ इति कुलकरस्थापनापूजनविधिः । इयं कुलकरस्थापना परसमये गणेशमदनस्थापना च विवाहानन्तरमपि सप्ताहोरात्रपर्यन्तं रक्षणीया । ततः शान्तिकं पौष्टिकं च वरगृहे कुर्यात् । कन्यागृहे मातृपूजां पूर्ववत् । ततः सप्तसु नवसु एकादशसु त्रयोदशसु विवाहकालात्पूर्वदिवसे वधूवरयोः
For Private & Personal Use Only
www.jainelibrary.org