________________
आचार- नत्सवं वस्त्राङ्गुलीयादि च देयं । तथा च लग्नदिनात् प्राक् मासे वा पक्षे वा वैयच्यानुसारेण उभयोः पक्षयोः विभागः१ दिनकरः परिजनं सङ्कट्य सांवत्सरमुत्तमासने निवेश्य तत्करेण विवाहलग्नं शुभभूमौ लेखयेत् । रूप्यवर्णमुद्राफल- विवाहवि.
पुष्पदूर्वाभिर्जन्मलग्नवद विवाहलग्नमर्चयेत् । ततो ज्योतिषिकाय उभयपक्षवृद्धवस्त्रालङ्कारताम्बूलदानं देयं इति विवाहारंभः । ततः कौरशरावेषु यववापनं । ततः कन्यागृहे मातृस्थापनं षष्ठ्याः स्थापनं षष्ठ्यादिप्रक्रमो|क्तप्रकारेण । वरगृहे जिनसमयानुसारेण मातृकुलकरस्थापनं । परसमये गणपतिकन्दर्पस्थापनं । गणपतिकन्दर्पस्थापनं सुगमं लोकप्रसिद्धं । कुलकरस्थापनविधिरुच्यते । गृह्यगुरुभूमिपतितगोमयलिप्तभूमौ वर्णमयं रूप्यमयं ताम्रमयं श्रीपर्णकाष्ठमयं पट्टकं स्थापयेत् । पदस्थापनमन्त्रः-"ॐ आधाराय नमः, आधारशक्तये नमः, आसनाय नमः," अनेन मन्त्रेणैकवारं परिजप्य पढें स्थापयेत् । तं पदं अमृतामन्त्रेण तीर्थजलैरभिषि-| श्वेत् । ततश्चन्दनाक्षतदूर्वाभिः पटं पूजयेत् । तत आदौ-"ॐ नमः प्रथमकुलकराय, काश्चनवर्णाय, श्यामवर्णचन्द्रयशःप्रियतमासहिताय, हाकारमात्रोच्चारस्थापितन्यायपथाय, विमलवाहनाभिधाय, इह विवाह-18 महोत्सवादी आगच्छ २, इह स्थाने तिष्ठ २, सन्निहितो भव २, क्षेमदो भव २, उत्सवदो भव २, आनन्ददो भव २, भोगदो भव २, कीर्त्तिदो भव २, अपत्यसन्तानदो भव २, स्नेहदो भव २, राज्यदोभव २, इदमध्ये पाद्यं ॥३३॥ बलिं चरं आचमनीयं गृहाण २, सर्वोपचारान् गृहाण २। तत ॐ गन्धं नमः, ॐ पुष्पं नमः, ॐ धूपं नमः,
. ख्यापित इत्यपि पाठः।
SAARCRACARRY
Jain Education Interno
For Private & Personal Use Only
T
w ww.jainelibrary.org