SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ ३२ ॥ Jain Education Inter यज्ञाः पाणिग्रहत्रयम् । सुताश्च गोत्रजगुरोर्न भवन्ति कलौ युगे ॥ १ ॥” इति वचनात् । संप्रति वर्त्तमानस्य प्राजापत्यविवाहस्य विधिरुच्यते । स यथा - "मूलानुराधारोहिण्यो मघा मृगशिरः करः । रेवतीत्र्युत्तरा स्वातीधिष्ण्येष्वेषु करग्रहः ॥ १ ॥ बेधैकागललत्ता पापोपग्रहयुतेषु धिष्ण्येषु । न विवाहः कर्त्तव्यो न युतौ वा क्रान्तिसाम्ये च ॥ १ ॥ न त्रिदिनस्पृशि नावमतिथौ च न क्रूरदग्धरिक्तासु । नामावास्याष्टमीषष्टिकासु न द्वादशी द्विव्येशे ॥ २ ॥ भद्रायां गण्डान्ते न चर्क्षतिथिवारदुष्टयोगेषु । न व्यतिपाते नो वैधृतौ च नो निन्द्यवेलासु || ३ || रविक्षेत्रगते जीवे जीवक्षेत्रगते रवौ । दीक्षाविवाहप्रमुखान् प्रतिष्ठां च विवर्जयेत् ॥ ४ ॥ चतुर्मास्यामधिमासे तथास्ते गुरुशुक्रयोः । मलमासे जन्ममासे विवाहादि न कारयेत् ॥ ५ ॥ मासान्ते चैव सङ्कातो तद्वितीये तथा दिने । ग्रहणादिदिने तस्मिन् दिने सप्ताह के ततः ॥ ६ ॥ न जन्मतिथिवारर्क्षलग्नेव्यपि करग्रहः । राशिजन्मेश्वरे चास्तं गते रहतेऽपि च ॥ ७ ॥ न जन्मराशौ नो जन्मराशिलग्नान्त्यमा टमे । न लग्नांशाधिपे लग्नं षष्ठाष्टमगते विधौ ॥ ८ ॥ लग्ने स्थिरे द्विखभावे सद्गुणे वा चरेऽपि च । उदयास्तविशुद्धे च नोत्पातादिविदूषिते ॥ ९ ॥ लग्ने ग्रहविनिर्मुक्ते सप्तमे च तथा विधौ । त्रिषडेकादशगते रवौ भौमे शनावपि ।। १० ।। राहौ च पत्रिके पापग्रहमुक्ते च पञ्चमे । सुतलग्नांबुदशमधर्मसंस्थे बृहस्पतौ ॥ ११ ॥ शुक्रे बुधे तथा संस्थे मूर्तिनाथेऽप्यखण्डिते । मूर्त्तिषष्ठाष्टमं त्यक्त्वान्यत्र युक्ते निशाकरे ॥ १२ ॥ क्रूरदृष्टं क्रूरयुक्तं चन्द्र तत्र विवर्जयेत् । याज्यौ क्रूरान्तरस्थौ च लग्नपीयूषरोचिषौ ॥ १३ ॥ इत्यादिगुणसंयुक्ते लग्ने For Private & Personal Use Only विभागः १ विवाहवि. ॥ ३२ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy