SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter "भवेत् ॥ २ ॥" "ब्राह्मं प्राजापत्यं तथार्षमथ दैवतं च चत्वारि । करपीडनानि धर्म्याणि मातृपितृवचनयोगेन ॥ १ ॥ गान्धर्व १ आसुरश्चाय २ राक्षसस्तदनु ३ चैव पैशाचः ४ । एते पापविवाहाश्चत्वारः स्वेच्छया विहिताः ॥ २ ॥ ब्राह्मविवाहविधिः । यथा शुभदिने शुभलग्ने पूर्वोदितगुणं वरं समाकार्य तस्मै स्नातालङ्कताय अलङ्कृतां कन्यां दद्यात् । मत्रो यथा - “ ॐ अहं सर्वगुणाय, सर्वविद्याय, सर्वसुखाय, सर्वपूजिताय, | सर्वशोभनाय सुवस्त्रगन्धमाल्यालङ्कृतां कन्यां ददामि, प्रतिगृह्णीष्व भद्रं भवते अहं ॐ।” इति मन्त्रेण बद्धाचलौ दंपती खगृहं गच्छतः । इति धर्म्यं ब्राह्मविवाहः । प्राजापत्यस्तु जगत्प्रसिद्धत्वाद्विस्तरेण कथयिष्यते । आर्षे च विवाहे वनस्थमुनयो गृहस्थाः स्वसुतामन्यृषिपुत्राय गा अनडुहश्च सह दत्वा कन्यां ददति । न तत्रान्यत्किञ्चिदुत्सवादि । एतदीयो वेदमन्त्रो जैनवेदेषु नास्ति जैनानां तदत्यत्वात् । दैवतविवाहे तु पिता | पुरोहिताय इष्टपूर्तकर्मतः । खकन्यां दक्षिणावद् दद्यात् । इति दैवतो धर्म्यविवाहः । अमी चत्वारो धर्म्या | विवाहा :- “ पित्राद्यप्रामाण्येऽन्योन्यप्रीत्युद्यमश्च गान्धर्वः । पणबन्धेनासुर इति पालादो हठकनीग्रहणात् ॥ १ ॥ सुरप्रमत्तकन्याग्रहणात् पैशाचिकः समाख्यातः । चत्वारोऽमी पापा उपयामाः कीर्त्तितास्तज्ज्ञैः ॥ २ ॥” इति पितृमातृगुर्वनुज्ञारहितत्वाचत्वारः पापविवाहाः तथा च ब्राह्मार्थदेवता विवाहा दुःषमाकाले कलियुगे न प्रवर्त्तन्ते । पापविवाहानां चतुर्णां वेदोक्तो विधिरपि न अधर्मत्वात् । यत उक्तं - " गोमेधनरमेधाद्या १ 'कर्मान्ते' इत्यपि पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy