________________
आ. दि. ६
Jain Education Inte
र्वेषां पूर्व मातृकापाठं पाठयेत् ततो विप्रस्य पूर्वमायुर्वेदं ततः षडङ्गीं ततो धर्मशास्त्रं पुराणादि । क्षत्रस्याप्येवमेव चतुर्दशविद्यास्ततश्च आयुर्वेदं धनुर्वेदं दण्डनीतिमाजीविकां च वैश्यस्य धर्मशास्त्रं नीतिशास्त्रं, कामशास्त्रमर्थशास्त्रं नीतिशास्त्रमाजीविकाशास्त्रं, कारूणां तदुचितं विज्ञानशास्त्रमध्यापयेत् । ततः साधुभ्यश्चतुविधाहार वस्त्रपात्र पुस्तक दानम् - " पौष्टिकस्योपकरणं गीतं वादित्रमेव च । मन्त्रोपदेशः पाठस्य संस्कारवस्तुसङ्ग्रहः ॥ १ ॥ इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने विद्यारंभ संस्कारकीर्त्तनो नाम त्रयोदश उदयः ॥ १३ ॥
चतुर्दश उदयः । अथ विवाहविधिः ।
इह हि विवाहः समकुलशीलयोरेव भवति । यत उक्तं - "ययोरेव समं शीलं ययोरेव समं कुलम् । तयोमैत्री विवाहश्च नतु पुष्टविपुष्टयोः ॥ १ ॥ ततः समकुलशीलौ समज्ञाती ज्ञात देशकृत्यान्वयौ विवाहसंबन्धे योज्यौ । ततश्च योऽविकृतस्तेन न विकृतकुलस्य कन्या ग्राह्या । विकृतकुलं यथा - "रोमशश्वार्शसो हखो दगुणश्चित्रिकुष्ठिनः । नेत्रोदररुजो बभ्रुवंशास्त्याज्याः कनीग्रहे ॥ १ ॥ एभ्यः कुलेभ्यो न कन्या ग्राह्या ।
For Private & Personal Use Only
www.jainelibrary.org