SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ २९ ॥ Jain Education Intern मत्रेण कुशाग्रेण सप्तवारमभिषिश्चेत् । ततो नदीकूले तीर्थे देवायतने वा पवित्रे वा गृहे स्थाने तस्य बटूकरणीयस्य पूर्व त्रिगुणा कुशमयमेखलां त्रिधा बनीयात् । मेखलाबन्धमन्त्रो यथा – “ ॐ पवित्रोऽसि, प्राचीनोऽसि, नवीनोऽसि, सुगमोऽसि, अजोऽसि, शुद्धजन्मासि, तदमुं देहिनं धृतव्रतमव्रतं वा पावय, पुनीहि अब्राह्मणमपि ब्राह्मणं कुरु ।" इति त्रिवेलं पाठः । ततस्तस्य कौपीनं परिधापयेत् । कौपीनमत्रो यथा - "ॐ अन ह्मचर्यगुप्तोऽसि ब्रह्मचर्यधरोऽपि वा । वृतः कौपीनबन्धेन ब्रह्मचारी निगद्यते ॥ १ ॥” इति त्रिवेलं पठित्वा कौपीनं परिधापयेत् । ततः पूर्वोक्तं ब्राह्मणसदृशमुपवीतं मन्त्रपूर्व परिधापयेत् । मन्त्रो यथा - “ॐ सधर्मोऽसि, | अधर्मोऽसि, कुलीनोऽसि, अकुलीनोऽसि सब्रह्मचर्योऽसि, अब्रह्मचर्योऽसि, सुमना असि, दुर्मना असि, श्रद्धालुरसि, अश्रद्धालुरसि, आस्तिकोऽसि, नास्तिकोऽसि, आर्हतोऽसि, सौगतोऽसि नैयायिकोऽसि, वैशेषिकोऽसि, साङ्ख्योऽसि, चार्वाकोऽसि, सलिङ्गोऽसि, अलिङ्गोऽसि, तत्वज्ञोऽसि, अतत्वज्ञोऽसि, तद्भव ब्राह्मणोऽमुनोपवीतेन भवन्तु ते सर्वार्थसिद्धयः ।" अनेन मन्त्रेण नववारं पठितेनोपवीतस्थापनम् । ततस्तस्य करे पालाशदण्डं दद्यात् । मृगाजिनं च परिधापयेत् । भिक्षामार्गणं च कारयेत् । ततो भिक्षामार्गणानन्तरमुपवीतवर्जितं मेखलाकौपीनाजिनदण्डाद्यपनयेत् । तदपनयनमन्त्रो यथा - "ॐ ध्रुवोऽसि, स्थिरोऽसि, तदेक- ॥ २९ ॥ मुपवीतं धारय ।" इति त्रिः पठेत् । ततो गुरुस्तं धृतश्वेतनिवसनोत्तरासङ्गं पुरो निवेश्य शिक्षयेत् । यथा"परनिन्दां परद्रोहं परस्त्रीधनवाञ्छनम् । मांसाशनं म्लेच्छकन्दभक्षणं चैव वर्जयेत् ॥ १ ॥ वाणिज्ये स्वा For Private & Personal Use Only विभागः १ उपनयन. xwww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy