SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ tokSCORECAUSAGROCKNACONCAOS शिक्षाकरणाय कल्पन्ते । अतस्तथाविधेषु पूर्वोक्तेषु कर्मसु बटूकृता ब्राह्मणा योजयितुं योग्या भवन्ति ।। अतस्तेषां बटकरणविधिविधीयते। उक्तं च, यतः-"च्युतव्रतानां व्रात्यानां तथा नैवेद्यभोजिनाम् । कुकमणामवेदानामजपानां च शस्त्रिणाम् ॥१॥ ग्राम्याणां कुलहीनानां विप्राणां नीचकर्मणाम् । प्रेतान्नभोजिनां चैव मागधानां च बन्दिनाम् ॥२॥ घाण्टिकानां सेवकानां गन्धतांबूलजीविनाम् । नटानां विप्रवेषाणां परशुरामान्ववायिनाम् ॥ ३॥ अन्यजात्युद्भवानां च बन्दिवेषोपजीविनाम् । इत्यादि विप्ररूपाणां बटकरणमिष्यते ॥४॥" तस्य चायं विधिः-पूर्व तस्य गृहे गृह्यगुरुयथोक्तविधिना पौष्टिकं कुर्यात् । ततस्तं शिष्य संस्थाप्य मुण्डनं कारयेत् । ततस्तं तीर्थोदकैर्मन्त्राभिमत्रितैः स्लपयेत् । तीर्थोदकाभिमन्त्रणमन्त्रो यथा-"ॐ |वं वरुणोऽसि, वारुणमसि, गाङ्गमसि, यामुनमसि, गौदावरमसि, नार्मदमसि, पौष्करमसि, सारखतमसि, शातद्रवमसि, वैपाशमसि, सैन्धवमसि, चान्द्रभागमसि, वैतस्तमसि, ऐरावतमसि, कावेरमसि, कारतोय-१ मसि, गौतममसि, शैतमसि, शैतोदमसि, रोहितमसि, रोहितांशमसि, सारयवमसि, हारिकान्तमसि, हारिसलिलमसि, नारीकान्तमसि, नारकान्तमसि, रौप्यकूलमसि, सौवर्णकूलमसि, सालिलमसि, राक्तवतमसि, नैनगसलिलपाद्ममसि, औन्निनग्नमसि, पाद्ममसि, माहापद्ममसि, तौगिच्छमसि, कैशरमसि, पौण्डरीकमसि, हादमसि, नादेयमसि, कौपमसि, सारसमसि, कौण्डमसि, नैझरमसि, वापेयमसि, तैर्थमसि, अमृतमसि, जीवनमसि, पवित्रमसि, पावनमसि, तदमुं पवित्रय कुलाचाररहितमपि देहिनं ।” अनेन Jan Education in For Private & Personal Use Only wwww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy