SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ + आचारदिनकरः KARI ६ शोविजयोपाध्यायप्रभृतिमहत्तराणामप्रतिमागमपण्डितानां संवेगगुहानिवासिनां निर्णीतसिद्धान्तेषु श्रद्धानादिरहितैः क्षुल्लकार्हतैरेव सन्दे- प्रस्तावना. होत्थापनस्य तीर्थकराद्याहतमर्यादाविदारणहेतुकसाहसत्वात् । गुणकर्मभ्यां संस्कारवशतो यथाकालमागन्तुकाभ्यां प्रायः संस्कृतसंस्कारप्रियपुरुषसहचराभ्यां तत्तद्व्यक्त्यवच्छेदेनैवोत्कर्षतामात्रप्रयोजकाभ्यां तरतमगुणकर्मवत्कतिपयव्यक्तिसमूहरूपसमष्टिसन्तानपरम्परामवधी-131 कृत्य व्यवस्थिताया वर्णव्यवस्थाया गतार्थत्वमङ्गीकुर्वतस्तु कस्कोऽन्तर्भवति कुत्रकुत्रेत्येतदर्थापेक्षितव्याप्यव्यापकभावभावानभिज्ञत्वाच्च । अतएवावैदिकाईतसौगतादिसमयेषु वैदिकेष्वपि च तेषु तेषु संप्रदायेषु तादृशत्यागादिगुणशालिशूद्रशरीरस्वीकारेऽपि न तस्य चक्रित्वधर्म चक्रित्वपदप्राप्तिस्वीकारो नच शूद्रादिशब्दातिरिक्तक्षत्रियादिशब्दवाच्यतास्वीकारोऽतएव च शठकोपस्य सूर्पकारस्याचार्यत्वमङ्गीकुर्वतां तापि४ ताङ्गानामपि वैष्णवैकदेशिनां श्रुतिध्वंस्यास्पदावाप्तिस्तयैव तेषां वर्णव्यवस्थाध्वंससाहसाद्विरतिश्च । ये च केचनार्हता अनाहता वा हतमतयोऽप्यहतोत्साहा जल्पन्ति वस्तुतस्त्वध्यात्मदृष्ट्या सत्यज्ञानानन्दात्मन्यात्मनि नास्ति दुःखदुर्बोधयोर्लेशोऽपि यदपनयकृते नानाविधधर्मकृत्यानुष्ठानं तत्कृते च संस्कारादिविधिना तथाविधाधिकारसंपादनम् एतत्कृते च वर्णव्यवस्था यामास्थायाः स्थिरीकरणमुपपन्नं भवतीति तेऽपि भ्रमभूतपीतचैतन्या एव । ज्ञानाद्यात्माप्यात्मा तावदेव तथात्वेन न निश्चित इति तदर्थहै. मेव नानाविधधर्मानुष्ठानस्यावश्यकत्वात् । प्राक् च तथानिश्चयात्तस्मिन्नेव शरीरावच्छेदेन सर्वेषामेव दुःखदुर्बोधादीनां व्यावहारिकधर्माणां कल्पितानामप्यकल्पितानामिवानुभूयमानत्वात् । सकचन्दनवनितामोदकादिषु रागोपादेयविषयेषु परुषपुरुषपुरीषादिषु द्वेषहेयविषयेषु द्रव्यतो विशेषविकलेष्वपि पर्यायत एव तथाभूतेषु भेदमनुभवतामपि वर्णव्यवस्थामेव द्विषतामध्यात्मदृशामधार्मिककुलकुलपतिलौकिककनिष्ठबन्धुत्वात् । ईदृशैश्चाधमैः स्वस्मिन्नारोपितस्याध्यात्मक्त्वस्याध्यात्मशास्त्रानवलोकनमूलकमोहत्वात् । SRUSA Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy