SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern | मर्जितान्नसेवनमलिनीभूते लेशतोप्यविद्यमानत्वेनैतद्विधपुरुषापसददत्तप्रमाणस्य प्रतारणारूपत्वात् । दर्शनरूपतयाऽऽत्मादिपदार्थस्वरूपनिरूपणावश्यकर्त्तव्यतया, हिंसाङ्गानुष्ठानमात्र निरसनेनानिषिद्धमनुमतमिति तदितरतत्कालीनवर्णव्यवस्थादरपुरस्सरसंस्कारादीनां स्वीकृतसमानतया, क्षत्रियशरीरश्रीमहावीरादितीर्थकृद्धीनधर्माधिपत्यब्राह्मणशरीरगौतमा दिगणधरगत तत्सहायकर्त्तृत्वयोर्मतान्तरानुमतक्षत्रियशरीरमनुरा मकृष्णाद्यधीनधर्मस्थापनरक्षादिकर्तृत्वत्राह्मणशरीरगौतमवामदेववसिष्ठगर्गादिगततत्संचालनकर्त्तृत्वयोरिवाङ्गीकृततयार्थादेव वर्णधर्मस्याङ्गीकृतप्रायतया, तीर्थकृद्विशेषप्रादुर्भावसमयस्य विलम्बिततया सर्वसम्मतस्यापि संस्कृतागमस्य हिंसाप्रवेशेन दूषिततया सर्वसाधारणधारणीयः | प्राकृतागमः कृत इति लेखस्यापि हिंसातिरिक्तयावल्लोकप्रसिद्ध संस्कृतागमसिद्धसंस्कारादिसत्कर्मणः कर्त्तव्यत्व एव सम्मततया, सूत्ररत्नमणि| सुवर्णादिजैनोपवीतस्य सर्वत्रैवोपलब्धतया, विवाहमहोत्सवेऽतीव लौकिके लवणोत्तारादिकर्मण्यपि तीर्थकृतः कथं सहमता भवन्तीति गौतमप्र आचार्याः प्रचलिताचारमाचरितं पूर्वजैर्न विघ्नन्तीति मरीचिचरमशरीरश्रीमहावीर तीर्थकरकृदुत्तरस्यापि लौकिकस्यातिलौकिकस्य वा विशिष्या प्रतिषिद्धस्याश्रयणमेवास्तिक्यमिति तात्पर्यपरतया, आर्या म्लेच्छाश्चेति सूत्रे जात्यार्यकर्मार्ययोः, सन्तानकमेणागयजीवायरस गोदमिति संण्णेति गाथायां सन्तानक्रमागतजीवाचरणस्य गोत्रेति संज्ञायाः स्वीकृतायाः प्रयोजकस्य सन्तानक्रमस्य स्वीकारेण त्रिवर्णाचा| राद्याचारनिबन्धेषु वर्णव्यवस्थामशिथिलामाहत्यैव संस्काराद्यावश्यकविधीनां निरूपणेन च दिगम्बरसमूहस्यापि प्रोक्तार्थे सहमततया चाईतागमो वर्णव्यवस्थातदनुसारि संस्कारायाचारेषु नोदास्ते नवा शेते किन्तु सुतरां जागर्त्तीति वक्तव्यस्यैव सद्भूतत्वात् । विषयलोलुपापटुप्रतिभपुरुषहतकप्रलापतो विदिताईतदर्शनपरमार्थस्वरूपाणामेतत्सिद्धान्तधामप्रधानस्तम्भभूतानां श्रीवर्धमानसूरिहरिभद्रसूरिहेमचन्द्राचार्यय For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy