SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern *56 T षजवसतिपुस्तकादिदाने धर्मलाभ एव मन्त्रः न तेभ्यो द्रव्यापेक्षिदानं केवलमसङ्गत्वात् परिग्रहव्या| वृत्तेः । अथ गृह्यगुरुरुप नीताङ्गोदानं गृहीत्वा वर्णानुज्ञां दत्वा चैत्यवन्दनं साधुवन्दनं विधाप्य तथैव सङ्घ मिलिते मङ्गलगीतवाद्येषु प्रसरत्सु शिष्यं साधुवसतिं नयेत् । तत्र पूर्ववत् मण्डलीपूजा वासःक्षेपः साधुवन्दनं । ततश्चतुर्विधसङ्घस्य पूजा मुनिभ्यो वस्त्रान्नपात्रादिदानं इति गोदानविधिः । संपूर्णोऽयं चतुर्विध उपनयनविधिः ॥ ॥ अथ शुद्रस्योत्तरीयकन्यासविधिः । सप्ताहं तैलनिषेकस्नानं पूर्ववत् । तदनन्तरं पौष्टिकं यथा| विधि सर्वशीर्षमुण्डनं वेदिकरणं चतुष्किकाकरणं जिनप्रतिमास्थापनं पूर्ववत् । ततो गृत्यगुरुर्जिनस्याष्टप्रकारां पूजां कुर्यात् । चतुर्दिक्षु शक्रस्तवपाठञ्च । ततो गुरुरासने उपविशेत् । शिष्यः समवसरणं गुरुं च प्रदक्षिणीकृत्य परिघृतश्वेतनिवसनोत्तरासङ्गो 'नमोऽस्तु' २ कथयन् गुरुं प्रणम्य योजितकर ऊर्ध्वभूय विज्ञपयेत् - "भगवन् प्राप्तमनुष्यजन्मार्यदेशार्यकुलस्य मम बोधिरूपां जिनाज्ञां देहि ।” गुरुः कथयति, 'ददामि ।' शिष्यः पुनः प्रणम्य कथयति, “न योग्योऽहमुपनयनस्य तजिनाज्ञां देहि ।” गुरुः कथयति, 'ददामि' । ततो द्वादशगर्भतन्तुरूपं कार्पासं वा कौशेयं वा उत्तरीयकं जिनोपवीतदीर्घ परमेष्टिमन्त्र भणनपूर्व जिनोपवीतवत्परिधापयेत् । ततो गुरुः पूर्वाभिमुखस्य शिष्यस्य चैत्यवन्दनं कारयेत् । ततः शिष्यः 'नमोऽस्तु' २ भणन् सुखोपविष्टस्य गुरोः पादयोर्निपत्य पुनरप्यूद्धभूतो बद्धाञ्जलिरिति कथयेत्, “भगवन् उत्तरीयकन्यासेन जिनाज्ञामारोपितोऽहं ।” गुरुः कथयति, “सम्यगारोपितोऽसि तर भवसागरं ।" ततो गुरुरग्रत उपविष्टस्य शूद्रस्य For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy