SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ SEARCAR सांप्रतं संस्कारविशेषेण ब्रह्मगुप्तिधारणाद्राह्मणः, क्षतात् त्राणेन क्षत्रं वा न्यायधर्मोपदेशात्, वैश्यो वा जातोFऽसि । तत्सक्रियमेतजिनोपवीतं सुगृहीतं कुर्याः सुरक्षितं कुर्याः । अस्तु ते क्षयरहितः सद्धर्मवासन उपन यनविधिः।” इति व्याख्याय परमेष्ठिमन्त्रं भणित्वा द्वावप्युत्तिष्ठतः । चैत्यवन्दनं साधुवन्दनं च । इति उपनयने है व्रतविसर्गविधिः॥ ॥ अथ गोदानविधिः । यथा, तदा व्रतविसर्गानन्तरं गुरुः सशिष्यस्त्रिस्त्रिर्जिनं प्रदक्षिणीकृत्य पूर्ववच्चतुर्दिक्षु शक्रस्तवपाठं कुर्यात् । ततो गृह्यगुरुः आसने उपविशेत् । ततः शिष्यो गुरुं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य योजितकरः ऊर्ध्वस्थितो गुरुं विज्ञपयेत् । यथा, भगवन् तारितोऽहं निस्तारितोऽहं उत्तमः कृतोऽहं, सत्तमः कृतोऽहं, पूतः कृतोऽहं, तद् भगवन्नादिश प्रमादबहुले गृहस्थधर्मे मम किश्चनापि रहस्यभूतं सुकृतं ।” ततो गुरुर्भणति, "वत्स! सुष्वनुष्ठितं सुष्टु पृष्टं तत् श्रूयतां-"दानं हि परमो धर्मों दानं हि परमा क्रिया । दानं हि परमो मार्गस्तस्माद्दाने मनः कुरु ॥१॥ दया स्यादभयं दानं उपकारस्तधाविधः । सर्वो हि धर्मसङ्घातो दानेऽन्तर्भावमर्हति ॥२॥ ब्रह्मचारी च पाठेन भिक्षुश्चैव समाधिना। वानप्रस्थस्तु कष्टेन गृही दानेन शुध्यति ॥ ३॥ ज्ञानिनः परमार्थज्ञा अर्हन्तो जगदीश्वराः । व्रतकाले प्रयच्छन्ति दानं सांवत्सरं च ते ॥४॥ गृह्णतां प्रीणनं सम्यग् ददतां पुण्यमक्षयम् । दानतुल्यस्ततो लोके मोक्षोपायोऽस्ति नापरः॥५॥" तत् त्वं वत्स! ब्राह्मण्यं क्षत्रत्वं वैश्यत्वं वा प्रपन्नोऽसि गृहस्थधर्मस्य मोक्षसोपानरूपं दानधर्मप्रारंभं कुरु ।” ततः प्रणम्य शिष्यः कथयति, “भगवन्नादिश मे दानविधि ।” गुरुः कथयति, 'आदि R ANGALAM 4%ॐॐॐ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy