SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ २६ ॥ Jain Education Intern तिमाग्रतः पूर्ववच्छक्रस्तवं पठेत् सयुगादिजिनस्तोत्रम् । तत आसनस्थस्य गुरोः पुरो नमस्कृत्य योजितकरो वदेत्- "भगवन् ! देशकालाद्यपेक्षया व्रतविसर्गमादिश ।” गुरुः कथयति, "आदिशामि ।" पुनः प्रणम्य शिष्यः कथयति, "भगवन् मम व्रतविसर्ग आदिष्टः " गुरुः कथयति, 'आदिष्टः' पुनर्नमस्कृत्य शिष्यः कथयति, “भगवन् व्रतबन्धो विसृष्टः ।” गुरुः कथयति, “जिनोपवीतधारणेन अविसृष्टोऽस्तु खजन्मनः षोडशाब्दी ब्रह्मचारी पाठधर्मनिरतस्तिष्ठेः ।” ततः पञ्च परमेष्ठिमन्नं भणन् पूर्व शिष्यो मौञ्जीकौपीनवल्कलदण्डानपनीय गुर्वग्रे स्थापयेत् । स्वयं जिनोपवीतधारी श्वेतनिवसनोत्तरीयो भूत्वा गुर्वग्रे प्रणम्योपविशेत् । ततो गुरुः तस्य द्वादशतिलकभृतः पुरः उपनयनव्याख्यानं कुर्यात् । तद्यथा - " अष्टवर्ष ब्राह्मणमुपनयेत् दशवर्ष क्षत्रियं द्वादशवर्ष वैश्यं, तत्र गर्भमासा अप्यन्तर्भवन्ति । तथा च जिनोपवीतमिति, जिनस्य उपवीतं मुद्रासूत्रमित्यर्थः । नव ब्रह्मगुप्सिगर्भ रत्नत्रयमेतत् पुरा श्रीयुगादिदेवेन वर्णत्रयस्य गार्हस्थ्यभृतः स्वमुद्राधारणमाभवादुपदिष्टं । ततस्तीर्थव्यवच्छेदे माहनेर्मिध्यात्वमुपगतैर्वेदचतुष्के हिंसाप्ररूपणेन मिथ्यापथं नीते | पर्वतव सुराजाभ्यां यज्ञमार्गे प्रवर्त्तिते यज्ञोपवीतमिति नाम धृतं । प्रलपन्तु मिथ्यादृशो यथेष्टं । जिनमते जिनोपवीतमेवैतत्त्वया सुधारितं कार्यं । मासे मासे नव्यं परिधेयं । प्रमादाज्जिनोपवीते त्यक्ते त्रुटिते वा उपवासत्रयं विधाय नवीनं धायें । प्रेतक्रियायां दक्षिणस्कन्धोपरि वामकक्षाघो विपरीतं धायें । यतो विपरीतं कर्म तत्। मुनयोऽपि मृतमुनिपरित्यागे तथाविधं विपरीतमेव वस्त्रं परिदधति । तत्त्वं पुरा जन्मना शूद्रोऽभूः For Private & Personal Use Only विभागः १ उपनयन. ॥ २६ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy