SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ - ----- ACAMACAMACHAR - संभोगकरणं वृक्षस्योपासनं निशि ॥ १८॥ कलहे तत्समीपं च वर्जनीयं निरन्तरम् । देशकालविरुद्धं च | |भोज्यकृत्यं गमागमौ ॥ १९॥ भाषितं व्यय आयश्च कर्त्तव्यानि न कर्हिचित् । चातुर्वर्ण्यस्य सर्वत्र व्रतादेशोऽयमुत्तमः ॥२०॥ इति चातुर्वर्ण्यस्य समानो व्रतादेशः । गृह्यगुरुरिति शिष्यस्य व्रतादेशं विधाय पुरतः। गत्वा जिनप्रतिमां प्रदक्षिणयेत् । पुनः पूर्वाभिमुखः शक्रस्तवं पठेत् । ततो गृह्यगुरुः आसने निविशेत् ।। शिष्यः नमोऽस्तु भणन् गुरोः पादयोर्निपत्य इति वदेत्, "भगवन् भवद्भिर्मम व्रतादेशो दत्तः । गुरुः कथ-| यति, दत्तः सुगृहीतोऽस्तु सुरक्षितोऽस्तु खयं तर परान् तारय संसारसागरात् ।" इत्युक्त्वा नमस्कारभणनपूर्वकमुत्थाय द्वाभ्यामपि चैत्यवन्दनं कार्य । ततो ब्राह्मणेन क्षत्रियवैश्यगृहेषु भिक्षाटनं कार्य । क्षत्रियेणशस्त्रग्रहः कार्यः । वैश्यनान्नदानं विधेयम् । इत्युपनयने व्रतादेशः॥ ॥ अथ व्रतविसर्गः कथ्यते । ब्राह्मणेन वर्षाष्टकादारभ्य दण्डाजिनभृता भिक्षाभोजिना षोडशाब्दी यावदव्यते अयमुत्तमः पक्षः । क्षत्रियेण दण्डाजिनभृता वर्षदशकादारभ्य षोडशाब्दी यावत् वयं पाकभोजिना गुरुदेवसेवापरायणेनाव्यते । वैश्येन दण्डा-17 जिनभृता खकृतपाकभोजिना द्वादशाब्दादारभ्य षोडशाब्दी यावत् अव्यते अयमुत्तमः पक्षः । तथा चेत्काहार्यव्यग्रतया तावन्ति दिनानि स्थातुं न शक्यन्ते तदा षण्मासी यावत् स्थेयं । तदभावे मासं तदभावे पक्षं। तदभावे दिनत्रयं तदभावे दिन एव व्रतविसर्गः । स कथ्यते-उपनीतस्त्रिः प्रदक्षिणीकृत्य चतुर्दिक्षु जिनप्र १ प्रदक्षिणां कारयेत् । - For Private &Personal use Only W Jan Education Internet ww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy