SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ PORDERRORSCADARSANORAMA बद्धोऽसि, कर्माष्टकप्रकृतिस्थितिरसप्रदेशैर्बद्धोऽसि, तन्मोचयति त्वां भगवतोऽर्हतः प्रवचनचेतना, तद वृध्यख. मा मुहः, मुच्यतां तव कर्मबन्धनमनेन मेखलाबन्धेन अर्ह ॐ।” इति पठित्वा उपनेयस्य कटौ नवगुणां मेखला | बध्नीयात् । तत उपनेयः “ॐ नमोऽस्तु” २ इति कथयन् गृह्यगुरोः पादयोर्निपतति । मेखलाया एकाशीतिहस्तत्वं विप्रस्यैकाशीतितन्तुगर्भजिनोपवीतसूचनाय, क्षत्रियस्य चतुःपञ्चाशत्करत्वात्तावत्तन्तुगर्भजिनोपवीतसूचनाय । नवगुणबन्धना विप्रस्य, षड्णबन्धना क्षत्रियस्य, त्रिगुणबन्धना वैश्यस्य तथा। मौनीकौपीनजिनोपवीतानां पूजनं, गीतादिमङ्गलं, निशाजागरणं तत्पूर्वदिनस्य निशि कार्य । ततः पुनद्यगुरुः उपनेयवितस्तिपृथुलं त्रिवितस्तिदीर्घ कौपीनं करद्वये निधाय-"ॐ अह आत्मन् देहिन् मतिज्ञानावरणेन, श्रुतज्ञानावरणेन, अवधिज्ञानावरणेन, मनःपर्यायावरणेन, केवलज्ञानावरणेन, इन्द्रियावरणेन, चित्तावरणेन आवृतोऽसि तन्मुच्यतां तवावरणमनेनाचरणेन अहं ॐ॥” इति वेदमन्त्रं पठन् उपनेयस्य अन्तः कक्षं कौपीनं परिधापदयेत् । तत उपनेयो "नमोऽस्तु"२ वदन् पुनरपि गृह्यगुरोः पादयोर्निपतेत् । ततस्त्रिस्त्रिः प्रदक्षिणीकृत्य चतुदिक्षु शक्रस्तवपाठः। ततो लग्नवेलायां जातायां गुरुः पूर्वोक्तं जिनोपवीतं स्वकरे निदध्यात् । तत उपनेयः पुनरूज़ स्थितः करौ संयोज्य इति वदेत्-"भगवन् वर्णोज्झितोऽस्मि, ज्ञानोज्झितोऽस्मि, क्रियोज्झितो|ऽस्मि, तजिनोपवीतदानेन मां वर्णज्ञानक्रियासु समारोपय” इत्युक्त्वा "नमोऽस्तु” २ कथयन् गृह्यगुरुपादयोनिपतेत् । गुरुः पुनः पूर्वेणोत्थापनमन्त्रेण तमुत्थाप्योवीकुर्यात् । ततो गुरुदक्षिणकरतलधृतजिनोपवीतः CCCEARCHES Jain Education Internal For Private & Personal Use Only T w .jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy