________________
आचारदिनकरः ॥ २१ ॥
Jain Education Intern
मन्त्रेण कुशाग्रैरभिषिञ्चेत् । ततः परमेष्ठिमत्रं पठित्वा " नमोऽर्हत्सिद्धाचार्योपाध्याय सर्वसाधुभ्यः” इति कथ| यित्वा जिनप्रतिमाग्रे पूर्वाभिमुखमुपनेयं निवेशयेत् । ततो गृह्यगुरुश्चन्दनमत्रेणाभिमन्त्रयेत् । चन्दनमत्रो यथा – “ ॐ नमो भगवते, चन्द्रप्रभजिनेन्द्राय, शशाङ्कहारगोक्षीरधवलाय, अनन्तगुणाय, निर्मलगुणाय, भव्यजनप्रबोधनाय, अष्टकर्ममूलप्रकृतिसंशोधनाय, केवलालोकविलोकितसकललोकाय, जन्मजरामरणविनाशकाय, सुमङ्गलाय, कृतमङ्गलाय, प्रसीद भगवन् इह चन्दननामामृताश्रवणं कुरु कुरु स्वाहा ।" अनेन मन्त्रेण चन्दनमभिमन्त्रय हृदि जिनोपवीतरूपां, कटौ मेखलारूपां, ललाटे तिलकरूपां रेखां कुर्यात् । तत उपनेयो गुरोः पादयोः "नमोsस्तु" २ इति भणन्निपत्य ऊर्ध्वभूतः कृताञ्जलिरिति वदेत् — “भगवन् ! वर्णरहितोऽस्मि, आचाररहितोऽस्मि, मन्त्ररहितोऽस्मि, गुणरहितोऽस्मि, धर्मरहितोऽस्मि, शौचरहितोऽस्मि, ब्रह्मरहितोऽस्मि । देवर्षिपित्रतिधिकर्मसु नियोजय मां । पुनः " नमोऽस्तु” २ वदन् गुरोः पादयोः निपतति । गुरुरपि | इति मन्त्रं पठन् उपनेयं शिखायां धृत्वा ऊर्ध्वं कुर्यात् - "ॐ अर्ह देहिन्निमग्नोऽसि भवार्णवे तत्कर्षति त्वां भग| वतोऽर्हतः प्रवचनैकदेशरज्जुना गुरुस्तदुत्तिष्ठ प्रवचनादादाय श्रद्दधाहि अहं ॐ ।” इति उपनेयमुत्थाप्य अर्हतः प्रतिमापुरः पूर्वाभिमुखमूर्वीकुर्यात् । ततो गृह्यगुरुः त्रितन्तुवर्त्तितां एकाशीतिकरप्रमाणां मुञ्जमेखलां स्वक- ४॥ २१ ॥ रद्वये निधाय अमुं वेदमन्त्रं पठेत्- "ॐ अर्ह आत्मन् देहिन ज्ञानावरणेन बद्धोऽसि, दर्शनावरणेन बद्धोऽसि, | वेदनीयेन बद्धोऽसि, मोहनीयेन बद्धोऽसि, आयुषा बद्धोऽसि, नाम्ना बद्धोऽसि, गोत्रेण बद्धोऽसि, अन्तरायेण
T
For Private & Personal Use Only
विभागः १ उपनयन.
www.jainelibrary.org