SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern परिधानं कृतवस्त्रोत्तरासङ्गं अक्षतनालिकेर क्रमुकहस्तं त्रिः प्रदक्षिणां कारयेत् । ततो गुरुरूपनेयं वामपार्श्वे संस्थाप्य पश्चिमाभिमुखबिंब सम्मुखमुपविश्य शक्रस्तवं प्रथमात्स्तोत्रयुक्तं पठेत् । पुनस्त्रिः प्रदक्षिणीकृत्य उत्तराभिमुखो जिनबिंबाभिमुखस्तथैव शक्रस्तवं पठेत् । एवं त्रिः प्रदक्षिणान्तरितं पूर्वाभिमुखदक्षिणाभिमुखजिनबिंबेपि शक्रस्तवं पठेत् । मङ्गलगीतवादित्रादि तत्र बहु विस्तारणीयं । ततस्तत्राचार्योपाध्याय| साधुसाध्वीश्रावकश्राविकारूपं श्रीश्रमणसङ्घ सङ्घयेत् । ततः प्रदक्षिणाशक्रस्तवपाठादनन्तरं गृह्य गुरुरुपनयनप्रारंभहेतुं वेदमुच्चरेत् । उपनेयस्तु दूर्वाफलपरिपूर्णकर ऊर्ध्वस्थितो जिनाग्रे कृताञ्जलिः शृणुयात् । उपनयनारंभवेदमन्त्रो यथा - "ॐ अर्ह अद्भ्यो नमः, दर्शनाय नमः, चारित्राय नमः, संयमाय नमः, सत्याय नमः, शौचाय नमः, ब्रह्मचर्याय नमः, आकिञ्चन्याय नमः, तपसे नमः, शमाय नमः, मार्दवाय नमः, आर्जवाय नमः, मुक्तये नमः, धर्माय नमः, सङ्घाय नमः, सैद्धांतिकेभ्यो नमः, धर्मोपदेशकेभ्यो नमः, वादिलब्धिभ्यो नमः, अष्टाङ्गनिमित्तज्ञेभ्यो नमः, तपस्विभ्यो नमः, विद्याधरेभ्यो नमः इह लोकसिद्धेभ्यो नमः, कविभ्यो नमः, लब्धिमद्भ्यो नमः, ब्रह्मचारिभ्यो नमः, निष्परिग्रहेभ्यो नमः, दयालुभ्यो नमः, सत्यवादिभ्यो नमः, निःस्पृहेभ्यो नमः, एतेभ्यो नमस्कृत्यायं प्राणी प्राप्तमनुष्यजन्मा प्रविशति वर्णक्रमं अहं ॐ ॥” इति वेदोचारं विधाय पुनरपि पूर्ववत् त्रिः प्रदक्षिणीकृत्य चतुर्दिक्षु शक्रस्तवपाठं सयुगादिदेवस्तवं कुर्यात् । तद्दिने उपनेयस्य जलयवान्न भोजने नाचाम्लप्रत्याख्यानं कारयेत् । ततश्च उपनेयं वामपार्श्वे संस्थाप्य सर्वतीर्थोदकैः अमृता For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy