SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आचार- दिनकरः ॥२०॥ उपनीतिक्रिया हिता। सर्वेषा वा गुरौ चन्द्रे सूर्ये च बलशालिनि ॥ ४॥ शाखाधिपे बलिनि केन्द्रगतेऽथवा-विभाग, स्मिन् वारेऽस्य चोपनयनं गदितं द्विजानाम् । नीचस्थितेऽरिगृहगे च पराजिते स्यात् जीवे भृगौ श्रुतिविधिः उपनयन. स्मृतिकर्महीना ॥५॥ लग्ने जीवे भार्गवे च त्रिकोणे शुक्रांशस्थे स्याद्विधौ वेदवेदां (2)। सौरांशस्थे सूरिलग्ने |सशुक्रे विद्याशीलः प्रोज्झितः स्यात्कृतघ्नः॥६॥ स्वानुष्ठाने रतः स्यात्प्रवरमतियुतः केन्द्रसंस्थे सुरेज्ये विद्यासौख्यार्थयुक्तो घुशनसि शशिजेऽध्यापकश्च प्रदिष्टः । सूर्ये राजोपसेवी भवति धरणिजे शस्त्रवृत्तिर्द्विजन्मा शीतांशी वैश्यवृत्तिर्दिनकरतनये सेवकश्चान्त्यजानाम् ॥ ७॥ शन्यंशे ह्युदयति मूर्खतार्कभागे क्रूरत्वं भवति च पापधीः कुजांशे । चन्द्रांशे त्वतिजडिमा बुधे पटुत्वं यज्ञत्वं गुरुभृगुभागयोगुणन्ति ॥ ८ ॥ सार्के जीवे निर्गुणोऽर्थेन हीनः ऋरस्सारे स्यात्पटुः सत्समेते । भानोः पुत्रेणालसो निर्गुणश्च स्याच्छुक्रेन्दू जीववत्सप्रकल्पौ ॥९॥ निर्दोषेष्वेषु धिष्ण्येषु वारेष्वपि कुजं विना । सुतिथौ दिनशुद्धौ च दिवा लग्ने शुभग्रहे ॥१०॥ विवाहवत्त्याज्यमृक्षदिनमासादि वर्जयेत् । पञ्चमे ग्रहनिर्मुक्ते लग्नेऽस्मिन् व्रतमाचरेत् ॥११॥” पूर्व यथासंपत्त्या उपनेयपुरुषस्य सप्ताहं नवाहं वा पञ्चाहं त्र्यहं वा सतैलनिषेकं लानं कारयेत् । ततो लग्नदिने गृह्यगुरुस्तद्गृहे ब्राह्म मुहूर्ते पौष्टिकं कुर्यात् । तदनन्तरमुपनेयशिरसि शिखावर्जितं केशवपनं कारयेत् । ततो वेदीस्थापनं तन्मध्ये वेदीचतुष्किका कार्या । वेदिप्रतिष्ठा विवाहाधिकारादवसेया । तत्र वेदिचतु|षिककायां समवसरणरूपं चतुर्मुखं जिनबिंब निवेशयेत् तमभ्ययं गुरुः उपनेयं सदशश्वेतनिवसन Jain Education Inter For Private & Personal Use Only * ww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy