________________
AMAC
नभक्त्या सम्यक्त्वधृत्या उपासकाचारशक्त्या खयमाचरणीयं तेषामसामयादं अनुपदेशकस्वात् च रत्नत्रयस्य कारणानुज्ञेन युक्ते अतो वैश्यानां जिनोपवीतमेकाग्रं । शद्राणां हि ज्ञानदर्शनचारित्ररूपस्य रत्नत्रयस्य स्वयं करणेऽप्यशक्तिः कारणानुमती आस्तां, तेषामधमजातित्वान्निःसत्वत्वाद् अज्ञानत्वाच, अतस्तेषां जिनाज्ञाभूतस्योत्तरीयस्य धारणं । तदपराणां वणिगादीनां देवगुरुधर्मोपासनवेलायां जिनाज्ञारूपा उत्तरा
सङ्गमुद्रा । जिनोपवीतरूपं यथा स्तनान्तरमात्रं चतुरशीतिगुणमेकं सूत्रं तत् त्रिगुणं कार्य ततोऽपि त्रिगुणं हूवर्तनीयम् , एतावता एकस्तन्तुः तथैव रीत्या एतादृशं पूर्वोक्तं तत् द्वयं अन्यद्योजनीयं एतावतैकमग्रं । तत्र ।
ब्राह्मणक्षत्रियवैश्यानां त्रयं द्वयमेकं योज्यं । परेषां मते इत्युक्तं-"कृते स्वर्णमयं सूत्रं त्रेतायां रौप्यमेव |च । द्वापरे ताम्रसूत्रं च कलौ कार्यसमिष्यते ॥१॥"जिनमते तु सौवर्ण सूत्रं सर्वदा ब्राह्मणानामेव क्षत्रियवैश्यानां सदा काससूत्रमेव । इति जिनोपवीतयुक्तिः॥ ॥ अथोपनयनविधिरुच्यते । उपनीयते वर्णक्रमारोहयुक्त्या प्राणी पुष्टिं नीयते इत्युपनयनं-"श्रवणश्च धनिष्ठा च हस्तो मृगशिरस्तथा । अश्विनी रेवती स्वातिश्चित्रा चैव पुनर्वसू ॥१॥ तथा च-सौम्ये पौष्णे वैष्णवे वासवाख्ये हस्तस्वातीत्वाष्टपुष्याश्विनीषु । ऋक्षेऽदित्यां मेखलाबन्धमोक्षौ संस्मर्येते नूनमाचार्यवयः॥ २॥ गर्भाधानादष्टमे जन्मतो वा मौञ्जीवन्धः शस्यते ब्राह्मणानाम् । राजन्यानां नूनमेकादशाब्दे वैश्यानां च द्वादशे वेदविद्भिः॥३॥ वर्णाधिप बलोपेते
अनेन कर्मणेति शेषः।
ARCASCAL-904944
Jan Edutation Internal
For Private & Personal Use Only
A
w
.jainelibrary.org