________________
आचारदिनकरः
॥ १९ ॥
Jain Education Inter
| यतीनां हि निर्ग्रन्थानां सर्वबाह्याभ्यन्तरकर्मविमुक्तानां नवब्रह्मगुप्तिगुप्ता ज्ञानदर्शनचारित्ररत्नमयी हङ्गतैव । ९ विभागः १ सद्भावनाभाविता हि सर्वदा मुनयो न वहिः सूत्ररूपां नवब्रह्मगुप्तियुतां रत्नमयीं वहन्ति तन्मयत्वात् । न
उपनयन.
| समुद्रो जलपात्रं करे करोति । न सूर्यो दीपं विभर्त्ति । यत उक्तं- "अग्नी देवोऽस्ति विप्राणां हृदि देवोऽस्ति | योगिनाम् । प्रतिमाखल्पबुद्धीनां सर्वत्र विदितात्मनाम् ॥ १ ॥” अतः शिखासूत्रविवर्जिता यतयः ब्रह्मगु |तिरत्नत्रयकरणकारणानुमतिषु सदैवादृताः । गृहिणः पुनर्ब्रह्मगुप्तिरत्नत्रये लेशश्रवणस्मरणमात्रघृते ब्रह्मगुप्ती रत्नत्रयं च सूत्रमुद्रया हृदि वहन्ति । " प्रतिमाखल्पबुद्धीनां" इति वचनाद् अतदात्मकत्वे मुद्राधारणं । यथा छद्मस्थस्य बाह्याभ्यन्तरतपःकर्म तथा नवतन्तुगर्भत्रि सूत्रमयमेकमग्रम् । एवमग्रत्रयं विप्रस्य, अग्रद्वयं क्षत्रियस्य, अग्रमेकं वैश्यस्य, उत्तरीयकं शूद्रस्य, उत्तरासङ्गानुज्ञा परेषां । कथमीदृशो विशेषः ? तदुच्यते, ब्राह्मणैर्नवत्रगुतियुतं ज्ञानदर्शनचारित्ररूपं रत्नत्रयं स्वयं करणीयं परेः कारणीयं परेषामनुज्ञातव्यं च ब्रह्मगुप्तिगुप्ता इति ब्राह्मणाः स्वयं रत्नत्रयीमध्ययनसम्यग्दर्शनचारित्र क्रियाभिराचरन्ति । परैरध्यापनसम्यक्त्वोपदेशा- x चारप्ररूपणैः कारयन्ति । परांश्च ज्ञानोपासनसम्यग्दर्शनधर्मोपासनाभिः श्रद्दधानान् अनुज्ञां याचमानान् अनुजानन्ति । अतो नवब्रह्मगुप्सिगर्भरत्नरत्नत्रयकरणकारणानुमतिभाजां ब्राह्मणानां जिनोपवीतेऽग्रत्रयं, क्षत्रियाणां च रत्नत्रयस्य खयमाचरणे निजशक्त्या नयप्रवृत्त्या परैरत्नत्रयस्याचरणकारणं न तेषामनुज्ञादानं युज्यते । ते हि प्रभुत्वशालिनो न परेषु नियमाद्यनुजानन्ति । अतः क्षत्रियाणां जिनोपवीतं द्वाग्रं । वैश्यैज्ञ- |
For Private & Personal Use Only
॥ १९ ॥
www.jainelibrary.org