SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern दशम उदयः । अथ कर्णवेध संस्कारविधिः ॥ १० ॥ "उत्तरात्रितयं हस्तो रोहिणी रेवती श्रुतिः । पुनर्वसू मृगशिरः पुष्यो धिष्ण्यानि तत्र च ॥ १ ॥ पौष्णवैष्णवकराश्विनिचित्रा पुष्यवासवपुनर्वसुमित्रैः । सैन्दवैः श्रवणवेधविधानं निर्दिशन्ति मुनयो हि शिशुनाम् ॥ २ ॥ लाभे तृतीये च शुभैः समेते क्रूरैर्विहीने शुभराशिलग्ने । वेध्यौ तु कर्णौ त्रिदशेज्यलग्ने तिष्येन्दु चित्राहरिपौष्णभेषु ॥ ३ ॥ कुजशुक्रार्कजीवेषु वारेषु तिथिसौष्ठवे । शुभयोगे कनीशिश्वोः कर्णवेधो विधीयते ॥ ४ ॥ एतेषु निर्दोषवर्षमास तिथिवारर्क्षेषु शिशो रविचन्द्रबले कर्णवेधमारभेत । उक्तं च- "गर्भाधाने पुंसवने जन्मन्यर्केन्दुदर्शने । क्षीराशने तथा षष्ठ्यां शुचौ नामकृतावपि ॥ १ ॥ तथान्नप्राशने मृत्यौ संस्कारेष्वेष्ववश्यतः । शुद्धिर्वर्षस्य मासस्य न गवेष्या विचक्षणैः ॥ २ ॥ कर्णवेधादिकेष्वन्यसंस्कारेषु विवाहवत् । शुद्धिं वत्सरमासर्क्षदिनानामवलोकयेत् ॥ ३ ॥” यथा तृतीये पञ्चमे सप्तमे वर्षे निर्दोषे शिशोरादित्यबलशालिनि मासे गुरुः शुभे दिने शिशुं शिशुमातरं च अमृतामन्त्राभिमन्त्रित जलैर्मङ्गलगानमुखाविधवाकरैः स्नपयेत् । तत्र च कुलाचारसंपदतिरेकविशेषेण सतैलनिषेकं त्रिपञ्चसप्तनवैकादशदिनानि स्नानं । तगृहे पौष्टिकाधिका१ “शिशोश्चन्द्रबले" इत्यपि पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy