________________
A
आचार- दिनकरः
COCALGAOCTOR
परशतान् पृथकप्रकारान् कारयेत् । ततोऽर्हत्प्रतिमाया बृहत्स्नात्रविधिना पञ्चामृतस्नात्रं कृत्वा पृथकपात्रे विभागार स्थापयेत्। अन्नशाकविकृतिपाकान् जिनप्रतिमाग्रतो नैवेद्यमन्त्रेण अर्हत्कल्पोक्तेन ढोकयेत् । फलान्यपि सर्वाणि
त अन्नप्राशन साढौकयेत् । ततः शिशोः अर्हत्स्नात्रोदकं पाययेत् । पुनरपि तानि सर्वाणि वस्तुनि जिनप्रतिमानैवेद्योद्वरितानि
अमृतश्रवमन्त्रेण सूरिमन्त्रमध्यगेन श्रीगौतमप्रतिमाने ढौकयेत् । तत उद्वरितानि कुलदेवतामश्रेण तद्देवीमन्त्रेण र गोत्रदेवीप्रतिमाग्रे ढोकयेत् । तत् कुलदेवीनैवेद्यायोग्याहारं मङ्गलेषु गीयमानेषु माता सुतमुखे दद्यात् । गुरुश्चामुं वेदमन्त्रं पठेत्, “ॐ अर्ह भगवान्नहन त्रिलोकनाथः स्त्रिलोकपूजितः सुधाधारधारितशरीरोऽपि कावलिकाहारमाहारितवान् पश्यन्नपि पारणाविधाविक्षुरसपरमान्नभोजनात्परमानन्ददायकं बलं । तद्देहिन्नौदारिकशरीरमाप्तस्त्वमप्याहारय आहारं तत्ते दीर्घमायुरारोग्यमस्तु अहं ॐ” इति मनं त्रिः पठेत् । ततः साधुभ्यः षविकृतिभिः षडूरसैराहारदानं यतिगुरोमण्डलीपट्टोपरि परमान्नपूरितसुवर्णपात्रदानं गृह्यगुरवे द्रोणमात्रं सर्वान्नदानं तुलामात्रं सर्व घृततैललवणादिदानं प्रत्येकमष्टोत्तरशतमितं सर्वफलदानं ताम्रचरुकांस्यस्थालवस्त्रयुग्मदानं । "सर्वान्नफलभेदाश्च सर्वा विकृतयस्तथा । स्वर्णरूप्यताम्रकांस्यपात्राण्येकत्र कल्पयेत् ॥१॥” इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने अन्नप्राशनसंस्कारकीर्तनो नाम नवम उदयः॥९॥
GANASASARAKAAS
१६॥
Jain Education Internet
For Private & Personal Use Only
www.jainelibrary.org