SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna नवम उदयः । अथान्नप्राशनसंस्कारविधिः ॥ ९ ॥ "रेवती श्रवणो हस्तो मृगशीर्ष पुनर्वसू । अनुराधाश्विनी चित्रा रोहिणी चोत्तरात्रयम् ॥ १ ॥ धनिष्ठा च तथा पुष्यो निर्दोषर्क्षेष्वमीषु च । रवीन्दुवुधशुक्रेषु गुरौ वारेषु वै नृणाम् ॥ २ ॥ नवान्नप्राशनं श्रेष्ठं शिशूनामन्नभोजनम् । रिक्तादिकाश्च कुतिथीदुर्योगांश्चैव वर्जयेत् ॥ ३ ॥ षष्ठे मासे प्राशनं दारकाणां कन्यानां तत्पञ्चमे सद्भिरुक्तम् । प्रोक्ते धिष्ण्ये वासरे सङ्ग्रहाणां दर्श रिक्तां वर्जयित्वा तिथिं च ॥ ४ ॥ रवौ लग्ने कुष्ठी धरणितनये पित्तगदभाक् शनौ वातव्याधिः कृशशशिनि भिक्षाटनरतः । बुधे ज्ञानी भोगी ह्युशनसि चिरायुः सुरगुरौ विधौ पूर्णे यज्वा भवति च नरः सत्रद इह ॥ ५ ॥ कण्टकान्त्यधनिनस्त्रिकोणगास्तत्फलं ददति यत्तनावमी । षष्ठ इन्दुरशुभस्तथाष्टमः केन्द्रकोणगत ऐर्निरन्नहृत् ॥ ६ ॥” ततः षष्ठे मासे बालस्य पञ्चमे मासे बालिकायाः पूर्वोक्तनक्षत्रतिथिवारयोगेषु शिशोश्चन्द्रबले अन्नप्राशनमारभेत । तद्यथा — गुरुः उक्तवेषधारी तगृहे गत्वा सर्वाणि देशोत्पन्नान्यन्नानि समाहरेत् । देशोत्पन्नानि नगरप्राप्याणि फलानि च षड् विकृती: प्रगुणीकुर्यात् । ततः सर्वेषामन्नानां सर्वेषां शाकानां सर्वासां विकृतीनां घृततैलेक्षुरसगोरसजलपाकैर्बहून् १ ऐनिः शनिः । क्रूर ग्रहोपलक्षणमेतत् । For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy