SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ SHOGAISRISKISHARAOSAGE शुभस्थाने शुभासने सुखासीनः पञ्चपरमेष्ठिमन्नंस्मरंस्तिष्ठेत् । तदा च शिशोः पितृपितामहाद्याः पुष्पफलपरिपू करा: गुरुं सज्योतिषिकं साष्टाङ्गं प्रणिपत्य इति कथयन्ति, "भगवन्! पुत्रस्य नामकरणं क्रियतां।" ततो गुरु|स्तान् कुलपुरुषान् कुलवृद्धाश्च स्त्रियः पुरो निवेश्य ज्योतिषिकं जन्मलग्नप्ररूपणाय समादिशेत् । ज्योतिषिक: शुभपट्टे खटिकया तजन्मलग्नमालिखेत् । स्थाने स्थाने ग्रहांश्च स्थापयेत् । ततः शिशुपितृपितामहाद्या जन्मलग्नं पूजयन्ति । तत्र वर्णमुद्राः १२ रूप्यमुद्राः १२ ताम्रमुद्राः १२ क्रमुकाः १२ अन्यफलजातिः १२ नालिकेलानि १२ नागवल्लीदलानि १२ एभिवादशलग्नपूजनम् । एतैरेव वस्तुभिनवनवप्रमाणैर्नवग्रहाणां पूजनं । एकैकवस्तुसंख्या सर्वमीलने २१ । एवं पूजिते लग्ने तेषां पुरो ज्योतिषिको लग्नविचारं व्याख्याति । तैरवहितैः श्रोतव्यं । ततः सव्यावर्णनं लग्नं ज्योतिषिकः कुश्माक्षरैः पत्रे लिखित्वा तत्कुलज्येष्ठस्य समर्पयेत् । तत्पित्रादिभि-15 ज्योतिषिकश्च निवापवस्त्रवर्णदानैः सम्माननीयः । गणकोऽपि तेषां पुरो जन्मनक्षत्रानुसारेण नामाक्षरं प्रकाश्य स्वगृहं व्रजेत् । ततो गुरुः सर्वकुलपुरुषान् कुलवृद्धा नारीश्च पुरतो निवेश्य तेषां संमतेन दूर्वाकरः परमेष्ठिमन्नभणनपूर्व कुलवृद्धाकणे जातिकुलोचितं नाम श्रावयेत् । तदनन्तरं कुलवृद्धा नार्यो गुरुणा सह पुत्रोत्सङ्गां तन्मातरं शिविकादिवाहनासीनां पादचारिणी वा सहानीय अविधवाभिमङ्गलगीतेषु गीयमानेषु वाद्येषु वाद्यमानेषु चैत्यं प्रति प्रयान्ति । तत्र मातापुत्रौ जिनं नमस्कुरुतः। माता चतुर्विशतिप्रमाणैः स्वर्णरूप्यमुद्राफल नालिकेरादिभिर्जिनप्रतिमाग्रे ढौकिनिकां कुर्यात् । ततश्च देवाग्रे कुलवृद्धाः शिशुनाम प्रकाशयन्ति । GGARAAS Jan Education Intern For Private & Personal Use Only XI www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy