________________
सप्तम उदयः।
अथ शुचिकर्मसंस्कारविधिः॥७॥ __ अत्र च शुचिकर्म खस्ववर्णानुसारेण व्यतीतदिनेषु कार्य । तद्यथा-"शुध्येद्विप्रो दशाहेन द्वादशाहेन || बाहुजः । वैश्यस्तु षोडशाहेन शूद्रो मासेन शुध्यति ॥ १॥ कारूणां सूतकं नास्ति तेषां शुद्धिर्नवापि हि ।।
ततो गुरुकुलाचारस्तेषु प्रामाण्यमिच्छति ॥२॥" ततः कारणात्वखवर्णकुलानुसारेण दिनेषु व्यतीतेषु गुरुः सर्वमपि षोडशपुरुषयुगादक तत्कुलजवर्ग समाह्वाययेत् । यतः सूतकं हि षोडशपुरुषयुगादवोंक गृह्यते। यदुक्तं-"नृषोडशकपर्यन्तं गणयेत्सूतकं सुधीः । विवाहं नानुजानीयाद्गोत्रे लक्षनृणां युगे ॥१॥" ततस्तान् गोत्रजानाहाय सर्वेषां साङ्गोपाङ्गं लानं वस्त्रक्षालनं च समादिशेत् । ते नाताः शुचिवसना गुरुं साक्षीकृत्य विविधपूजाभिर्जिनमर्चयन्ति । ततश्च बालकस्य मातापितरौ पञ्चगव्येनाचान्तलातौ सशिशू नखच्छेदं विधाप्य योजितग्रन्थी दंपती जिनप्रतिमां नमस्कुरुतः । सधवाभिमङ्गलेषु गीयमानेषु वाद्येषु वाद्यमानेषु सर्वेषु चैत्येषु पूजानैवेद्यढौकनं च । साधवे यथाशक्त्या चतुर्विधाहारवस्त्रपात्रदानं । संस्कारगुरवे वस्त्रतांबूलभूषणद्रव्यादिदानं । तथा जन्मचन्द्रार्कदर्शनक्षीराशनषष्ठीसत्कदक्षिणा संस्कारगुरवे तस्मिन्नहनि देया॥ सर्वेषां गोत्रजखजनमित्रवर्गाणां यथाशक्त्या भोजनतांबूलदानं । तथा गुरुः तत्कुलाचारानुसारेण शिशोः
Jan Education Interna
For Private & Personal Use Only
W
ww.jainelibrary.org